SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 48 सटीकाद्वैतदीपिकायाम् अथ पटर्मिकतादात्म्ये घटप्रतियोगिकत्वाभाव एव तस्य ततो भेद इति चेत् तथाप्यभेदातिरिक्ततादात्म्याभावात् / अभेदश्च भेदाभाव इत्यन्योन्याधीनतया दुनिरूपो भेदः / शास्त्रप्रतिपाद्याभेदश्च न स्वरूपादतिरिच्यते। अथ न तादात्म्यमन्योन्याभावप्रतियोगि प्रतियोगितावच्छेदकं वा, किंतु घटादिरेव तत्प्रतियोगी। न चैवं संसर्गाभावान्योन्याभावयोरभेदप्रसङ्गः। अधिकरणविषयप्रतियोग्यारोपजन्यज्ञानविषयाभावत्वं संसर्गाभावत्वम्। अधिकरणविषयप्रतियोगितावच्छेदकारोपजन्यज्ञानविषयाभावत्वमन्योन्याभावत्वमिति तद्भेद इति चेत्। . किं पटर्मिकतादात्म्यं पटस्वरूपमेव पटत्वं वा भेदाभावो वा ? / नाद्यः / धर्मधर्मिभावानुपपत्तेः / न द्वितीयः। पटत्वस्याखण्डधर्मत्वेन तस्मिन्पटप्रतियोगिकत्वस्याप्यभावेन पटस्य स्वस्मादपिभेदापत्तेः पटत्वस्य स्वाभावप्रतियोगित्वेन पटस्य पटत्वाभावाभेदोऽपि न स्यात्, पटत्वरूपतादात्म्ये घटप्रतियोगिकत्वाभावेऽपि घटभेदस्य पटर्मिकत्वासिद्धेश्च / तादात्म्यस्यासाधारणधर्मरूपत्वे धर्मान्तराभावात्तस्येतरभेदो न स्यात् तत्रापि धर्मान्तराङ्गीकारे ऽनवस्थापत्तेः। तस्मात् तृतीय एव परिशिष्यते इत्यभिप्रेत्याहतथापीति / तथापि दोषमाह-अभेदश्चेति / पटाभेदज्ञाने तत्र घटप्रतियोगिकत्वाभावरूपभेदज्ञानं, तज्ज्ञाने च तदभावरूपाभेदज्ञानमिति परस्पराश्रयान्न भेदः प्रामाणिक इत्यर्थः / ननु भेदस्य दुनिरूपत्वे तदभावरूपाभेदस्यापि तथात्वापत्त्या तस्य शास्त्रप्रतिपा. द्यत्वानुपपत्तिरित्यत आह-शास्त्रेति / अनिर्वचनीयभेदाधिष्ठानस्य सच्चिदानन्दात्मनः स्वरूपतो निष्प्रतियोगिकस्यैव भेदसत्ताविरोध्यभेदात्मना शास्त्रे प्रतिपाद्यमानत्वान्न तस्य दुनिरूपत्वादिकमित्यर्थः। तादात्म्यस्य भेदप्रतियोगित्वादेरनङ्गीकारान्नोक्तदोषावकाश इति कश्चित्तार्किकंमन्यः शङ्कते- अथेति / तहि निष्प्रतियोगिको भेदोऽनुपपन्न इत्यत आह-किं विति / संसर्गाभावेऽपि घटादेरेव प्रतियोगित्वादन्योन्याभावरूपभेदस्यापि तत्प्रतियोगिकत्वे तस्य संसर्गाभावाभेदो न स्यादित्युक्तमपवदति-न चैवमिति / एकप्रतियोगिकत्वेऽपि लक्षणभेदाभेद इत्यभिप्रेत्य तयोर्लक्षणभेदमाह-अधिकरणेति / अप्रसक्तप्रतिषेधायोगात् प्रसक्तिपूर्वकप्रतिषेधो वाच्यः तथा चाभावाधिकरणविषयको यः प्रतियोग्यारोपः, तज्जन्यं यज्ज्ञानं तद्विषयाभावत्वं संसर्गाभावस्य लक्षणम् / अभावाधिकरणविषयको यः प्रतियोगितावच्छेदकारोपः तज्जन्यं यज्ज्ञानं तद्विषयाभावत्वमन्यो. न्याभावस्य लक्षणमिति लक्षणभेदादभावभेद इत्यर्थः / एकस्यैव घटस्य चक्षुः स्पर्शन जन्यज्ञानद्वयविषयत्ववत् त्वदुक्तारोपद्वयजन्यज्ञानद्वयविषयत्वस्यैकाभावेऽपि संभवान्न ततोऽभावभेदसिद्धिरिति दूषयति-न ग्राहकेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy