SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 47 न च घटप्रतियोगिकघटर्मिकतादात्म्याभावः पटस्य घटप्रतियोगिकतादात्म्यविरोधी। धर्मभेदेन तादात्म्यभेदात् / जीवस्य ब्रह्माभेदाविरोधितभेदस्यास्माभिरनिवार्यत्वात् / जीवस्य ब्रह्मतादात्म्यस्य प्रामाणिकत्वात् / अत एव संयोगावच्छिन्नबृक्षतादात्म्याभावस्य तस्मिन्नेव तदभावावच्छिन्ने सत्त्वेपि न वृक्षभेदः॥ तत्र हेतुमाह-धर्मभेदेनेति / यथैकस्मिन् वृक्षे अग्रत्वावच्छिन्नवृक्षप्रतियोगिकमेकं कपिसंयोगावच्छिन्नप्रतियोगिकमपरं वृक्षत्वावच्छिनप्रतियोगिकमन्यदित्यनेकानि तादात्म्यानि धर्मभेदाद्भिद्यन्ते। तथा च मूलावच्छिन्ने वृक्षेऽग्रत्वावच्छिन्नप्रतियोगिकस्य संयोगावच्छिन्नप्रतियोगिकस्य वा तादात्म्यस्याभावेऽपि वृक्षत्वावच्छिन्नप्रतियोगिकतादात्म्यमस्त्येव / एवं मृदवच्छिन्नघटप्रतियोगिकस्य देशविशेषसंयोगावच्छिन्नघटप्रतियोगिकस्य वा तादात्म्यस्य पटत्वावच्छिन्नेऽभावेऽपि घटत्वावच्छिन्नप्रतियोगिकतादात्म्यस्य पटेऽपि सत्त्वाविरोधान्न घटर्मिकघटप्रतियोगिकतादात्म्याभावमात्रात्पटे तद्भेदसिद्धिरित्यर्थः। ननु यत्र यदवच्छिन्नप्रतियोगिकतादात्म्याभावस्तस्य तदवच्छिन्नात्स एव भेदः / मूलावच्छिन्नवृक्षस्यापि अग्रावच्छिन्नवृक्षाभेद एवेत्याशङ्कय वृक्षवदेव जीवस्य स्वरूपेण ब्रह्माभेदेऽपि सर्वज्ञत्वादिविशिष्टरूपेण तद्भेदो ऽविरुद्धत्वादिष्ट एवेत्याह-जीवस्येति / ननु मूलाग्रयोवृक्षाभेदस्य प्रत्यभिज्ञासिद्धत्वात् सोऽप्यभ्युपेयः, न तथा जीवब्रह्मणोः स्वरूपाभेदे प्रत्यभिज्ञाऽस्तीत्याशक्य तदभावेऽपि तत्त्वमस्यादिश्रुतिसिद्धत्वात् सोऽप्यभ्युपेय इत्यभिप्रेत्याह-जीवस्येति / ननु मूले वृक्षः कपिसंयोगवान्न भवतीति प्रतीतेन संयोगावच्छिन्नवृक्षतादात्म्याभावो विषयः किं तु संयोगात्यन्ताभाव एव / तथा च वृक्षतादात्म्याभाववति वृक्षाभेद एव न त्वभेदोऽपि / एवं ब्रह्मतादात्म्याभावे जीवस्य ब्रह्मभेद एव न त्वभेदोऽपीत्यत आह-अत एवेति / विशिष्टभेदस्य स्वरूपाभेदेनाविरोधादेवेत्यर्थः / अयममिसंधिः-इदमिदं न भवतीति ज्ञानस्य घटादौभेदविषयत्वाद् वृक्षेऽपि तद्विषयत्वमेव तस्य वक्तव्यम् / इतरथा कपिसंयोगतदभावयोरधिकरणभेदाभावादन्यत्रापि भावाभावयोविरोधो दत्तजलाञ्जलि: स्यात् / तदभिन्ने तद्भेदोऽपि विरुद्ध इति चेत् / न, तत एव भेदस्यानिर्वचनीयत्वाङ्गीकारात्, भेदाभेदयोः प्रतियोगितावच्छेदकभेदेनाविरोधोपपत्तेश्च / अन्यथा 'नाहं सर्वज्ञ' इति प्रतीतेरपि सर्वज्ञत्वादेरेवाभावो विषय इति न जीवेश्वरभेदसिद्धिरिति / / ननु यद्धर्मिकतादात्म्ये यत्प्रतियोगिकत्वाभावः स एव तस्य ततो भेद इति शङ्कते-अथेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy