SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् इव जीवस्यापि तदुपदेशवैयर्थ्यादिति प्रत्युक्तम् / आत्मस्वरूपसत्तया लब्धात्माऽनिर्वचनीयभेदेनैव तदुपपत्तेः। भेदस्वरूपखण्डनम् / किं च न तावदन्योन्याभावो भेदः। तत्प्रतियोगिनोऽनिरूपणात् / तथा हिन तावद् घटादिः प्रतियोगी। संसर्गाभावसाङ्कर्यप्रसङ्गात् / ननु तादात्म्यं तदवच्छिन्नो घटादिर्वा प्रतियोगीति चेत् / न, घटपटतादात्म्यस्याप्रमितत्वात् / असत्प्रतियोगिकाभावस्याभावात् / अथ घटे घटतादात्म्यं प्रमितं पटे निषिध्यते, घटतादात्म्याभावश्च पटाधिकरणस्तस्य ततो भेद इति चेत् / न, तादात्म्यस्य घटस्वरूपत्वे घटेऽपि घटभेदप्रसङ्गात् / अतिरिक्तमपि घटत्वं न तादात्म्यमिति वक्ष्यते। तदन्यत्तु दुनिरूपमेव / किं च तादात्म्याभावो रूपाद्यभाववन्न भेदः / योऽभावो यस्य येन तादात्म्यविरोधी स खलु तस्य भेदः // बिम्बगतश्यामत्वादिवज्जीवे व्यवस्थितत्वाद्वस्तुतो ब्रह्माभेदेऽपि नोक्तानुपपत्तिरित्याह-- आत्मेति / / भेदस्वरूपस्यैव निर्वक्तुमशक्यत्वादनिर्वाच्यभेदेनैव सर्वत्र विरुद्धधर्मव्यवस्थेत्यभिप्रेत्य भेदस्वरूप खण्डयति--किं चेति / भेदः किं पदार्थधर्मस्तत्स्वरूपं वा ? / आद्येऽपि किमन्योन्याभावः सः उक्तवैलक्षण्यम् वा? / नाद्य इत्याह-न तावदिति / किमन्योन्याभावस्य घटादिरेव प्रतियोगी तादात्म्यं वा तदवच्छिन्नो घटादिर्वा ? / आद्य प्रतियोगितदवच्छेदकभेदाभावात् संसर्गाभावादस्य भेदो न स्यादित्याह-न तावदिति / किं चास्य प्रतियोगिविरहस्वभावत्वेन तत्प्रतियोगिकाले तत्सामानाधिकरण्यानुपपत्तिः, तद्विरहात्मत्वाभावेऽभावत्वमेव न स्यादिति द्रष्टव्यम् / द्वितीयतृतीयौ शङ्कते - नन्विति / किमत्र पटर्मिकघटतादात्म्यं तत्प्रतियोगि उत घटर्मिकघटप्रतियोगिकमेव ? / आद्य दूषयति--न घटेति / ततः किमित्यत आहअसदिति / द्वितीयं शङ्कते-अथेति / किं घटतादात्म्यं घटस्वरूपं, तदतिरिक्तं वा ? नाद्यः। घटर्मिकघटप्रतियोगिकाभावस्य परमते घटेऽपि सत्त्वात् सोऽपि स्वस्मादेव भिद्यतेति दूषयति-न तादात्म्यस्येति / द्वितीयेऽपि तत्कि घटत्वमेव ततोऽन्यद्वा ? / नोभयथापीत्याह--अतिरिक्तमपीति / दुर्निरूपमेवेति / घटघटत्वातिरिक्ततादात्म्यस्य द्रव्याद्यन्यतमत्वेन निरूपणायोगादित्यर्थः। तादात्म्यस्यानिरूपणादेव तदवच्छिन्नप्रतियोगिकाभावो भेद इत्येतदपि निरस्तमिति द्रष्टव्यम् / घटर्मिकघटप्रतियोगिकतादात्म्यमङ्गीकृत्यापि तदभावस्य भेदत्वं दूषयति-किं चेति / तस्याभेदत्वं दर्शयितुं भेदशब्दार्थमाहयोऽभाव इति / अभाव इति च्छेदः / तहि घटर्मिकघटप्रतियोगिकतादात्म्याभाव एव पटतादात्म्यविरोधीति स एव तस्माद्भेद इत्यत आह-न चेति //
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy