________________ द्वितीयः परिच्छेदः व्यभिचारः। एवं जीवपक्षकभेदानुमानेष्वपि व्यर्थविशेषणात्वादय ऊह्याः साध्यवैकल्यं च घटस्य ब्रह्मप्रतियोगिकभेदे सत्त्वाभावात् / ब्रह्मपक्षकानुमानान्तरदूषणम् यत्तु ब्रह्म तत्त्वतो जीवाभिन्नं नेत्यनुमानं, तन्न। ब्रह्मस्वरूपातिरिक्तस्य जोवाभेदस्य वास्तवत्वानुपपत्तेः, शास्त्रप्रतिपाद्यतत्स्वरूपाभेदस्य तवासिद्धः। एतेन जीवपराभेदे वास्तवत्वं निषिध्यत इति प्रत्युक्तम् / तस्यासिद्धावाश्रयासिद्धः। सिद्धौ वा परमार्थत्वाद्धर्मिग्राहकमानबाधात् / सर्वेषां हेतूनामुक्तश्रुतिविरोधाच्च / अत एव कर्मज्ञानोपदेशानुपपत्ति वस्य ब्रह्मभेदे मानम् / अन्यथा ब्रह्मण ऽकर्तृत्वेन तत्र व्यभिचाराच्च / द्वितीये व्यापारपदेन किं कृतिरुच्यते परिस्पन्दो वा कार्यमानं वा ? / आद्य घटे सावनवैकल्यम् / द्वितीये जीवेऽसिद्धिः। तस्य मध्यमपरिमाणत्वेऽणुत्वे वाऽनित्यत्वाप्रत्यक्षत्वाद्यापत्तेः / सर्वगतत्वेन वा परिस्पन्दायोगात् / आरोपितपरिस्पन्दस्य घटादिषु तवाभावात् / तृतीयेऽपि जीवेच्छाधीनजीवशरीरसंयोगादिकार्यवत्त्वात् सर्वगतेश्वरस्य तत्र व्यभिचारः। तृतीयचतुर्थयोश्च जीवेऽसिद्धिः। सर्वगतस्य नित्यस्य तस्याश्रितत्वकार्यत्वयोरभावादित्यादिदूषणं जीवपक्षकानुमानेषुह्यमिति भावः / अत्रापि धर्मिसत्तासमानसत्ताकपदस्थाने पारमार्थिकेत्यादिपदप्रक्षेपे दोषमाह-साध्येति / कार्यकारणयोरारम्भणाधिकरणन्यायेन वास्तवभेदायोगात् घटादेश्च ब्रह्मकार्यत्वात् तत्र ब्रह्मप्रतियोगिकवास्तवभेदोऽसिद्ध इत्यर्थः / ब्रह्मपक्षकानुमानान्तरमप्यनूद्य दूषयति-यत्त्वित्यादिना। . किमत्र ब्रह्मस्वरूपातिरिक्तस्य तात्त्विकजीवाभेदस्य निषेधः उत तत्त्वमस्यादिशास्त्रगम्यब्रह्मस्वरूपाभेदस्य ? नाद्यः / ब्रह्मातिरिक्तस्य तात्त्विकस्याप्रसिद्धत्वेन तदभावस्यापि घटादावप्रसिद्धः साध्यवैकल्यादित्यभिप्रेत्याह-ब्रह्मेति / द्वितीये निखिलभेदा भावात्मकस्य सत्यज्ञानादिरूपस्य शास्त्रगम्याभेदस्य तवासिद्धरुक्तदोषस्तदवस्थ इत्यभिप्रेत्याह-शास्त्रेति / नन्वस्मिन्प्रयोगे न तात्त्विकजीवाभेदो निषिध्यते येनोक्तविकल्पः स्यात्, किं तु जीवपराभेदे ब्रह्मणि प्रसिद्धं तात्त्विकत्वमेवेत्याशङ्कामपवदति--एतेनेति / एतच्छब्दार्थमेवाह-तस्येति / जीवब्रह्मपक्षकसर्वानुमानेष्वपि “नान्योऽतोऽस्ति"इत्यादिश्रुतिबाधश्चेत्याह-सर्वेषामिति / जीवपरभेदे श्रुतिप्रत्यक्षानुमानानि निराकृत्यार्थापत्तिमपि निराकरोति-अत एवेति / कमज्ञानयोरुपदेश: कर्मज्ञानोपदेशः तदनुपपत्तिरित्यर्थः। अनुपपत्तिमेवाहअन्यथेति | कर्माद्युपदेशस्य कर्तृत्वादिमात्रापेक्षत्वात्तस्य चानिर्वचनीयभेदादपि प्रति