SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् चारात्। लाघवेन ज्ञानाभावस्यैव व्याप्यत्वादसिद्धेश्च / असंसारित्वमपि यदि संसारध्वंसवत्त्वं तहि ब्रह्मण्यप्यसिद्धिः, स्वभिमतमुक्तजीवेषु व्यभिचारश्च / अथ मंसारात्यन्ताभाववत्त्वं, तहि अस्मदभिमतजीवस्यारोपितसंसारात्यन्ताभाववत्त्वाद व्यभिचार इति चेन्न। तथापि जीवत्वावच्छिन्न प्रतियोगिकजीवभेदस्थ जीवेऽभावात् / न च यत्किचिज्जीवप्रतियोगिकजीवभेद एव साध्य इति वाच्यम् / यत्किञ्चिज्जीवत्वस्यापि सर्वजीवानुगतत्वेन तदवच्छिन्नप्रतियोगिकजीवभेदस्य जीवेऽभावात्, भेदस्य प्रतियोगितावच्छेदकाधिकरणजीवेऽसंभवादिति भावः / ज्ञानाभावस्यैव घटादावुक्तसाध्यव्याप्तत्वादसद्विशेषणं व्यर्थ चेत्याह-लाघवेनेति / अस्तु तर्हि ज्ञानाभाव एव हेतुरित्यतआह-- असिद्धेश्चेति / असंसारित्वादित्यत्रापि किं संसारध्वंसवत्त्वं हेतुत्वेन विवक्षितं, तदत्यन्ताभाववत्त्वं वा ? / आद्य ब्रह्मणि संसाराभावेन प्रतियोगिसमानाधिकरणस्तद्ध्वंसोऽपि तत्रासिद्ध इत्याह--असंसारित्वमपीति / कि च पराभिमत मुक्तजीवेषु, संसारध्वंससत्त्वेऽपि पूर्वोक्तविधया जीवप्रतियोगिकभेदाभावाद्वयभिचारश्चेत्याह - त्वदभिमतेति / द्वितीयमनूद्य दूषयति-अथेति / यदपि चोक्तं जीवो ब्रह्मप्रतियोगिकर्मिसत्तासमानसत्ताकभेदवान् असर्वज्ञत्वात्, असर्वशक्तित्वात्, अस्वतन्त्रत्वाच्च घटवदिति तत्राप्युक्तदूषणजातमतिदिशति-एवमिति / अत्रापि जीवब्रह्मपदाभ्यां विशिष्टविवक्षायां सिद्धसाधनं, कर्तृत्वाद्युपलक्षितविवज्ञायां ब्रह्मणोऽपि पक्षल्वेन बाधः, तदुपहितविवक्षायां चोपहितत्वस्यापि विशेषणत्वोपलक्षणत्वयोरक्तदोषापातात् / धर्मिपदस्थाने स्वपदप्रक्षेपे च जीवो जीवप्रतियोगिकस्वसमानसत्ताकयावद्भेदवान् स्वसमानसत्ताकज्ञानाद्यत्यन्ताभाववान् वा असर्वज्ञत्वादिभ्यः घटवदित्याभाससाम्यम्। असर्वज्ञत्वं च किञ्चिज्ज्ञत्वं सर्वविषयज्ञानाभावो वा सर्वविषयसाक्षात्काराभावो वा सर्वविषयलौकिकसाक्षात्काराभावो वा ? / आद्ये घटादौ साधनवैकल्यम् / न द्वितीयतृतीयौ / जीवेऽपि तव मते सामान्यलक्षणादिप्रत्यासत्तिजन्यसर्वविषयज्ञानस्य तत्साक्षात्कारस्य च सत्त्वात् / तुरीये ब्रह्मणि व्यभिचारः / संयोगादिषट्कान्यतमप्रत्यासत्तिजन्यस्य लौकिकसाक्षात्कारस्य ब्रह्मण्यभावेन तत्रोक्तहेतोः सत्त्वात्, घटादी ज्ञानाभावस्यैवोक्तसाध्यव्याप्यत्वाद्विशेषणवैयर्थ्य च / असर्वशक्तित्वमपि किं सर्वासां शक्तीनां राहित्यं सर्वकार्यविषयशक्तिराहित्यं का ? / आद्य ब्रह्मणि व्यभिचारः वन्ह्यादिगतदाहादिशक्तेब्रह्मण्यभावात् / द्वितीयेऽप्यस्मन्मते ब्रह्मणि तादृशशक्तेरारोपितत्वेन त इभावस्यापि ब्रह्मणि सत्त्वेन व्यभिचारात् / परमतेऽपि ब्रह्मप्रतियोगिकघटनिष्ठभेदे व्यभिचारः / तत्र ब्रह्मप्रतियोगिकभेदान्तराभावात् / ___ अस्वतन्त्रत्वमपि किमकतृत्वम् अन्येच्छाधीनव्यापारवत्त्वंवा आश्रितत्वं वा कार्यत्वं वा? / नाद्यः। जीवस्य पुण्यपापादिकर्तृत्वेनाकर्तृत्वासिद्धेः / अस्मन्मते ब्रह्मणोऽपि वस्तुतो
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy