________________ 43 द्वितीयः परिच्छेदः उक्तभेदहेतूनां प्रत्येकं दूषणम् प्रथमहेतौ च दुःखपदं व्यर्थम् / घटादौ तेन विनाऽपि व्याप्तिग्रहसंभवात् / व्याप्तिग्रहोपयुक्तस्यैव हेतुविशेषणत्वात्। केवलाभावस्य व्याप्यत्वे विशिष्टाभावस्य गौरवेणाव्याप्यत्वात् / अननुभवितृत्वमात्रस्य ब्रह्मण्यसिद्धः। विशिष्टोऽपि हेतुरसिद्ध एव / सर्वज्ञ ब्रह्मणि दुःखाननुभवासंभवात् / स्वसमवेतदुःखाननुभवितृत्वं हेतुरिति चेत् / न, ब्रह्मणि दुःखाभावेन प्रतियोग्यप्रसिद्ध्या हेतोरसिद्धः / न च दुःखगोचरलौकिकसाक्षात्कारानाश्रयत्वं हेतुः / अस्मन्मते जीवे व्यभिचारात्, तदीयदुःखसाक्षात्कारस्याप्यलौकिकसाक्षित्वात्, अप्रसिद्धश्च / अभ्रान्तत्वादित्यपि हेतुरसिद्धः / मिथ्यावस्तुविषयज्ञानस्य भ्रान्तेः कल्पितप्रपञ्चसाक्षिणि ब्रह्मण्यपि सत्त्वात् // असद्विषयं ज्ञानं भ्रम इति चेत / न, 'असन्न भासते' इति मते जीवन व्यभि दुःखपदं विना घटादावननुभवितृत्वस्यैवोक्तसाध्यव्याप्यत्वेऽप्यसिद्धिनिवारणेन तदर्थवदित्याशङक्याह--व्याप्तिग्रहेति / असिद्धिनिवारणमात्रेण हेतुविशेषणत्वे क्षित्यादिकमकर्तृकं शरीर्यजन्यत्वादित्यादिप्रयोगोऽपि साधीयान् स्यादिति भावः। विशिष्टाभावस्यान्यत्वान्न वैयर्थ्यमित्याशयाह-केवलेति / अभावरूपहेतो स्वगतस्य व्याप्यतावच्छेदकधर्मस्याभावात् प्रतियोग्येव तदवच्छेदको वाच्यः / तथा चानुभवितृत्वमात्रस्य प्रतियोगितया व्याप्यतावच्छेदकत्वे लाघवम् / दुःखविशेषितस्यावच्छेदकत्वे तु गौरवमिति भावः। तीननुभवितृत्वमेव हेतुरस्त्वित्यत आह-अननुभवितृत्वमिति / किञ्च विशिष्टहेतावपि किं दुःखविषयानुभवाभावमात्रं विवक्षितमुत स्वसमवेतदुःखाननुभवितृत्वं, दुःखगोचरलौकिकसाक्षात्कारानाश्रयत्वं वा ? / आये सर्वज्ञब्रह्मणो जीवगतदुःखानुभववत्त्वात्तदभावोऽसिद्ध इत्याह -विशिष्टोऽपीति / द्वितीयं शङ्कते-- स्वसमवेतेति / स्वशब्दस्य समभिव्याहृतब्रह्मपरत्वात्तदीयदुःखाप्रसिद्धया तदनुभवोऽप्यप्रसिद्धः। तदप्रसिध्या च तदभावरूपहेतुरासिद्ध इत्याह-न ब्रह्मगीति / तृतीयं दूषयति-न चेति / वस्तुतस्त्वस्मन्मते दुःखगोचरलौकिकसाक्षात्काराभावेन तदनाश्रयत्वस्याप्रसिद्धरत्राप्यप्रसिद्धिरित्याह-अप्रसिद्धेश्चेति / अभ्रान्तत्वादित्यत्रापि किं मिथ्यावस्तुज्ञानं भ्रान्तिस्तदभाववत्त्वं हेतुत्वेन विवक्षितमुतासज्ज्ञानं भ्रान्तिस्तदभाववत्त्वं वा ? / आये ब्रह्मज्ञानस्यापि मिथ्याभूतप्रपञ्चविषयत्वेन भ्रान्तित्वात्तदभावो ब्रह्मण्यसिद्ध इत्याह--अभ्रान्तत्वादित्यपीति / द्वितीयं शङ्कते--असदिति // एवं सति वैशेषिकादिमते जीवेऽप्यसज्ज्ञानाभावात् तत्रापि हेतुः स्यात् / तथा च व्यभिचार इत्याह-न असदिति / ननु त्वन्मतेऽपि जीवे जीवान्तरप्रतियोगिकभेदसत्त्वान्न