________________ 42 सटीकाद्वैतदीपिकायाम् वाच्यम् / ब्रह्म ब्रह्मप्रतियोगिकर्मिसत्तासमानसत्ताकभेदवत्, स्वसमानसत्ताकजडत्ववत्, तादृशदुःखवत् दुःखाननुभवितृत्वात्; असंसारित्वात्, अभ्रान्तत्वात; ज्ञातृत्वात् घटवत्, जीववच्च इत्याभाससमानयोगक्षेमत्वात् / न च पारमार्थिकभेदः साध्यः / श्रुतिनिषिद्धस्य पारमार्थकत्वानुपपत्तेः, दृष्टान्ते साध्याभावाच्च // न च घटो जीवप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवान जीवर्मिकर्मिज्ञानाबाध्याभेदाप्रतियोगित्वात् इत्यनुमानात्तत्सिद्धिः। घटस्य स्वरूपेणानिर्वचनीयस्य विनापि पारमार्थिकभेदं जीवज्ञानाबाध्याभेदाप्रतियोगित्वात् / सति हि मिणि सत्प्रतियोगिकाभेदाभावे सन् भेदः सिध्यति / भेदस्य जीवज्ञानाबाध्यत्वेऽपि न सत्यता। तस्य ब्रह्मविषयाज्ञानादेव जीवत्वादेरिव सिद्धत्वात् / न च जीवप्रतियोगिकब्रह्मज्ञानाबाध्यभेदवानिति वा साध्यम् / आत्मातिरिक्तस्य सर्वस्यापि ब्रह्मज्ञानेन बाधात् / उक्तरीत्या अप्रयोजकत्वाच्च // मानेन श्रुत्या जीवाभेदेनैव तस्य सिद्धत्वाद्धर्मिग्राहकमानबाधस्तुल्य इति भावः। यदपि चोक्तं धर्मिसमानसत्ताकेतिपदस्थाने पारमाथिकेत्यादिविशेषणं देयमिति, तद् दूषयतिन चेति / पारमार्थिकत्वानुपपत्तिरित्युपलक्षणं श्रुतिनिषिद्धत्वादेव यावद्ब्रह्मस्वरूपमनुवर्तमानत्वादिकमपि भेदस्यानुपपन्नमित्यर्थः / पारमार्थिकभेदवदिति साध्ये दोषान्तरमाह-दृष्टान्त इति / / यत्तु सामान्यानुमानेन घटे जीवप्रतियोगिकपारमार्थिकभेदसिद्धिरित्युक्तं, तद् दूषयति-न चेति / घटे सद्पजीवाभेदाप्रतियोगित्वस्य सत्त्वाभावेनापि संभवादुक्तसाध्ये हेतुरप्रयोजक इत्याह-घटस्येति / कुत्र तीभेदाभावात्सन् भेदः सिद्धयतीति वीक्षायामाह - सति हीति / भेदस्य धर्मिप्रतियोगिपरतन्त्रत्वात्तत्सत्यत्वं भेदसत्यत्वे प्रयोजकम् / न हि-वर्मी सन्न भवति, धर्मः सन्निति युज्यते। अतः सद्विलक्षणे घटे जीवाभेदाभावेन भेदमात्रसिद्धावपि न तस्य सत्यत्वसिद्धिरिति भावः / किं च प्रतियोगिज्ञानाबाध्येति घटनिष्ठजीवभेदस्य किं कर्तृत्वादिविशिष्टजीवज्ञानाबाध्यत्वं साध्यते, उत तदुपलक्षितब्रह्मज्ञानाबाध्यत्वम् ? / आद्ये सिद्धसाधनं ब्रह्माज्ञानकार्यस्य तस्य तदज्ञानानिवर्तकजीवज्ञानाबाध्यत्वादित्याहमेदस्येति / द्वितीयं दूषयति-न चेति / अस्मिन् पक्षे यद्यज्ज्ञानाबाध्ययमिकाभेदाप्रतियोगि तत् ब्रह्मज्ञानाबाध्यतत्प्रतियोगिकभेदवदित्येवं सामान्यव्याप्तिर्वक्तव्या / अत्र न किञ्चिदुहाहरणमस्ति दूरस्थवृक्षभेदस्यापि ब्रह्मज्ञानबाध्यत्वादित्यभिप्रेत्याह-आत्मातिरिक्तस्येति / अनिर्वचनीयघटस्य ब्रह्मज्ञानेन बाध्यजीवभेदवत्त्वेऽपि तदभेदाप्रतियोगित्वोपपत्तरत्रापि हेतुरप्रयोजक इत्याह-उक्तरीत्येति / एतेन यावत्स्वरूपमनुवर्तमानभेदवदित्यादिसाध्येष्वपि हेतोरप्रयोजकत्वमिति सूचितम् / भ्रान्त्यादेराविद्यकत्वेन तदभावरूपाभ्रान्तत्वं घटादाविव जीवप्रतियोगिकाविद्यक भेदेनैव ब्रह्मण्युपपत्तेः। एवं सामान्यतः सर्वहेतूनां पक्षादिदूषणमुक्त्वा प्रत्येकमपि दूषयति--प्रथमेति /