SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 39 योग्यानुपलब्धिरप्यस्ति पित्तोपहतनयनस्य सत्यपि शो श्वेताभेदे तदनुपलब्धिवत् सतोऽपि जीवे ब्रह्माभेदस्याविद्यादोषेणानुपलम्भसंभवात् / “न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव" "एतं ब्रह्मलोकं न विदन्त्यन्तेन हि प्रत्यूढाः" "अविद्यायामन्तरे वर्तमानाः" "अज्ञानेनावृतंज्ञानमि"त्यादिश्रुतिस्मृतिभ्यामज्ञानावरणस्य सिद्धत्वात् / श्रुतिसिद्धाभेदस्य श्रुतिसिद्धावरणेनैवानवभासोपपत्तौ तदभावकल्पनायोगाच्च / प्रतिबद्धप्रतिभासस्याप्यभावकल्पनायामतिप्रसङ्गात् / अपि च यथा ब्राह्मणत्वाद्याश्रयाभेदे सत्यपि मनुष्यशरीरे तदुपदेशासहकृतप्रत्यक्षेण स नानुभूयते, विपरीततया च गृह्यते / एवं जीवे ब्रह्माभेदे सत्यपि, तदत्र नास्तीति सदृष्टान्तमाह--पित्तोपहतेति / पित्तस्य शङ्खश्वत्यावभासप्रतिबन्धकत्वेन्वयव्यतिरेकवदविद्याया ब्रह्माभे रप्रतिभासप्रतिबन्धकत्वे न किञ्चिन्मानमित्याशङ्कमाहन तं विदाथेति / तमीश्वरं न विदाथ / यूयं तमीश्वर न विजानीथ / नन्वीश्वरस्याभावादेव न विजानीमो, न त्वस्मदपराधादित्यत आह--य ईश्वर इमाः प्रसिद्धा जरायुजाण्डजादिरूपाः प्रजा जजान उत्पादितवान् / तथा च जगत्कर्तृत्वेनेश्वरस्य सिद्धत्वान्न तदभाव इत्यर्थः / तथापि तस्य भिन्नत्वाद्विप्रकृष्टत्वाचन न जानीम इत्यत आह-अन्यल्लौकिककारणविलक्षणं / नित्यप्रातस्यायाच्छादकत्वाद्युप्माकमन्तरं तत्स्वरूपाच्छादनेन ततो भेदकमज्ञानं बभूव / अतो भवन्तस्तमात्मतया न जानन्तीत्यर्थः। यथा मार्गपतितं मलिनं सुवर्णपिण्ड सुपर्युपरि गच्छन्तः स्खलन्तोऽपि सुवर्णत्वाज्ञानान्न प्राप्नुवन्ति / एवमेव सर्वे जीवा अहरहः सुषुप्तौ ब्रह्म गच्छन्तोऽपि एतं ब्रह्मलोक ब्रह्मैव लोको ब्रह्मलोकः तं न विदन्ति न प्राप्नुवन्ति / तत्र श्रुत्यन्तरादिप्रसिद्ध हेतुमाह--अमृतेनेति / अनृतमनिर्वचनीयमज्ञानं तेन मोहिता यत इत्यर्थः / नन्वननुभूयमानमभेदं कल्पयित्वा तदनवभासप्रयोजकतथा प्रतिबन्धकस्यापि कल्पनाद्वरमभेदस्यैवाभावकल्पनमित्यत आह-श्रतिसिद्धति / अयोगमेवोपपादयति -प्रतिबद्धेति / प्रतिबद्धइति बहुव्रीहिः // किञ्च यथा व्याधपरिगहीते ब्राह्मणपुत्र राजपुत्रे वा विद्यमानोऽपि ब्राह्मणादिशरीराभेदस्तन्निश्चायकोपदेशाभावान्नोपलभ्यते / अत एव व्याधभावेन विपर्यस्यते च / एवं जीवेश्वराभेदस्थाप्युपदेशमात्रगम्यत्वात्तदभावदशायां सतोऽप्यभेदस्योपलम्भकाभावादेवानुपलम्भाधुपपत्तेोग्यानुपलब्द्धयभावान्नाभेदाभावरूपभेदः प्रत्यायोग्य इत्याहअपि चेति / स नानुभूयते इति / संशयादिनिवर्तकानुभवविषयो नेत्यर्थः। तदभावश्चेति / अभेदाभावरूपभेदो भ्रान्त्या गृह्यते इत्यर्थः / ब्रह्माभेदस्योपदेशमात्रगम्यत्वे हेतुमाहनावेदविदिति / वेदान्तानामिति / अधीतमात्रवेदान्तानामापातबोधहेतुत्वं आचार्योंक्तिन्यायोपोदलितानां तेषां संशयादिनिवर्त्तकसत्तानिश्चयहेतुत्वमिति भावः /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy