________________ सटीकाद्वैतदीपिकायाम् यथावद्वेदान्तोपदेशार्थावगमात्पूर्व स नानुभूयते, तदभावश्च ज्ञायते / "नावेदविन्मनुते तं बृहन्तमिति तत्र वेदान्तातिरिक्तमानाप्रवेशस्य "तं त्वौपनिषदं" सर्वे वेदा यत्पदमामनन्ति "आचार्यवान् पुरुषो वेदेति वेदान्तानामाचार्यस्य चात्मावबोधसाधनत्वस्य श्रुतिसिद्धत्वात / सहकारिविरहादनुभूयमानस्याप्यभावे सर्वत्र तथा प्रसङ्गात् / जीवाणुत्ववादेपि ईश्वरभेदो न प्रत्यक्षः किञ्च न तावदण्वात्मनीश्वरभेदः प्रत्यक्षग्राह्यः / अणोर्जीवस्यातीन्द्रियत्वेन तत्र तकितेश्वरभेदस्य जीवाभेदवदतीन्द्रियत्वात् / नाप्यनुमानम् / अनुकलतर्काभावेनोक्तहेतूनामप्रयोजकत्वात् / सर्वज्ञत्वकिञ्चिज्ज्ञत्वादेरौपाधिकश्यामत्वावदातत्ववद् व्यवस्थितत्वात् / भेदनिषेधश्रुतिप्रामाण्यभङ्गप्रसङ्गलक्षणप्रतिकूलतर्कपराहतत्वाच्च / जीवेशभेदे अनुमाननिरासः . . ब्रह्म जीवप्रतियोगिकर्मिसत्तासमानसत्ताकभेदवदित्यनुमानं च सिद्धसाधनं. बुद्ध्युपहितजीवात् संसारिणस्त्वंपदवाच्यात् तत्पदवाच्यस्यासंसारिणो ब्रह्मणः सर्व किञ्च जीवस्य ब्रह्मातिरिक्तस्वरूपेण सर्वगतत्वे मानाभावान्मव्यमपरिमाणत्वे चानित्यत्वादिप्रसङ्गाद्वस्तुतोभेदेऽणुत्वमेव वाच्यम् / तथा च परमाणाविव जीवेऽपि जीवप्रतियोगिकर्मिसमसत्ताकभेदवद् अभ्रान्तत्वादित्याद्यनुमानान्यपि न भेदे मानमित्याह-नापीति / ईश्वरस्य भ्रान्तजीवाभेदेऽभ्रान्तत्वसर्वज्ञत्वाद्यनुपपत्तिरेवानुकूलतर्क इत्याशक्य तत्त्वतोऽभेदेप्यौपाधिकभेदेन बिम्बप्रतिबिम्बमुखयोरवदातत्वश्यामत्ववदीश्वरस्य' सर्वज्ञत्वादिकमेव, जीवस्य तु भ्रान्तत्वादिकमेवेति व्यवस्थोपपत्तेमवमित्याहसर्वज्ञेति / किञ्च भेदनिषेधश्रुतीनामन्यपरताया निरस्तत्वादभेदाभावे तदप्रामाण्यापत्तिलक्षणप्रतिकूलतर्कपराहतिश्चेत्याह-भेदेति / किञ्च आद्यानुमाने किं जीवब्रह्मपदवाच्ययोर्भेदः साध्यते, उत जीवास्तत्वतो ब्रह्मणो न भिद्यन्त इत्यभेदानुमाने यो जीवब्रह्मपदार्थों तयोर्वा किं वा जीवब्रह्मपदोपलक्षितयोः ? / आये सिद्धसाधनं ब्रह्मशब्दवाच्यस्य विशिष्टरूपस्य स्वसमानसत्ताकानिर्वचनीयजीवभेदवत्त्वाभ्युपगमादित्याह-ब्रह्म जीवेति / द्वितीयेऽपि सिद्धसाधनमेव स्यात् / अनुमाने तु तत्त्वत इति विशेषणान्न बाध इत्यभिप्रेत्याह- अभेदानुमानेपीति / ननु त्वपदवाच्यस्य ब्रह्मभिन्नस्य संसारित्वं तल्ल