SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् प्रत्यक्षस्य जीवे ईश्वरभेदाग्राहकत्वम् कि च प्रत्यक्षेऽन्तःकरणावच्छिन्नात्मनो भेदोऽनुभूयते, न तु केवलस्य अहमनुभवस्य भेदविषयस्यान्तःकरणतादात्म्यवेष्टितात्मविषयत्वस्योक्तत्वात् / न च संसाराज्ञानाद्याश्रयस्य सुषुप्तिसंबन्धिन एवाहमनुभवे भेदोऽनुभूयत इति कथमन्तःकरणावच्छिन्नस्यैव भेदोऽहमनुभवविषय इति वाच्यम् / अहमनुभवगोचरादतिरिक्तचिदात्माज्ञानदशायां तस्यैवाज्ञानाद्याश्रयाभेदारोपेण तथाऽनुभवात् / तज्ज्ञानदशायां तु नेश्वरभेदोऽनुभूयते न हमनुमवगोचरातिरिक्त आत्मा ईश्वराद्भिन्न इति कश्चिदनुभवति / अन्तःकरणाधिष्ठानचंतन्यस्य सुषुप्त्यादिमित्वेन तस्यैव कल्पितभेदाश्रयतया योहमज्ञोऽस्वाप्स, सोऽहमीश्वरादभिन्न इत्यनुभवसंभवाच्च / किश्च सर्वगतात्मवादे नि:खादहं भिन्न इत्यनुभवो नेश्वरभेदविषयतया नियन्तुं शक्यते। शरीरानवच्छिन्नजीवप्रदेशस्यापि निदुःखत्वात्। किञ्च नात्र अहं निर्दुःखो नेति प्रत्यक्षेऽहमनुभवविषयमिको ब्रह्मभेदः प्रतीयते / अहमनुभवविषयश्चान्तःकरणतादात्म्यापन्न एव चिदात्मेत्यकत्मिवारे निरूपितम् / तथा च यस्य शबलितस्येश्वरभेदः प्रत्यक्षेण प्रतीयते, न तस्येश्वराभेदः शास्त्रेण प्रतिपाद्यते / यस्य तु केवलस्येश्वराभेदः प्रतिपाद्यते न तस्य भेदः प्रत्यक्षेण प्रतीयत इति न श्रुतिप्रत्यक्षयोविरोध इत्यर्थः। यदुक्तं पूर्ववादिना योऽहं सुप्तो, यस्म ममाज्ञानं संसारश्व, सोऽहमीश्वरो नेत्यन्तःकरणानुपहित एवात्मनिईश्वरभेदः प्रतीयत इति तदपवदति-न चेति / किमहमनुभवगोचराच्चिदात्मनोऽविवेकदशायामयमनुभवः, विवेकदशायां वा ? / आद्ये भेदवता विशिष्टेन तद्रहितस्य केवलस्थाभेदारोपादुक्तप्रत्यभिज्ञेत्यभिप्रेत्याह --अहमनुभवेति / द्वितीयेऽहमतिरिक्तात्मन ईश्वराभेदेनैव सिद्धत्वान्न तत्र तद्भेदानुभवोऽस्तीत्याह-- तज्ज्ञानेति / अज्ञानोपहितचैतन्यस्यैवान्तःकरणोपहितत्वात्तस्याहमर्थाभेदेऽपि शुक्लस्यैव पटस्य रक्तद्रव्योपरागे रक्तोऽयं पटो न शुदल इति प्रतीतेरिब योऽहमज्ञोऽस्वाप्सं सोऽनीश्व" इति प्रतीतेरौपाधिकभेद एव विषय इति न स्वाभाविकाभेदविरोध इत्याह-अन्तःकरणेति / किञ्च निर्दुःखादहं भिन्न इति दुःखाभावावच्छिन्नप्रतियोगिको भेदोऽनुभूयते विभ्वात्मवादिमते च शरीरानवच्छिन्नजीवात्मनोऽपि दुःखाभाववत्त्वात् तत्प्रतियोगिकभेदस्य स्वाभाविकस्य तस्मिन्नसंभवादोपाधिकभेद एवैतदनुभवविषय इत्यभिप्रायेणाहकिञ्च सर्वेति / अपि चान्योन्याभावरूपभेदस्य योग्यानुपलब्धिरूपसहकार्यभावात् न प्रत्यक्षमानगम्यत्वमित्याह--किं चेति / अनुपलब्धेस्तकितप्रतियोगिसत्त्वविरोधित्वमेव योग्यता।
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy