________________ 37 द्वितीयः परिच्छेदः अत एव प्रत्यक्षविरोधादभेदश्रुतिः "आदित्यो यूपः" इति श्रतिरिव गुणवाद इति प्रत्युक्तम् / प्रत्यक्षस्य सद्विलक्षणभेदविषयत्वेनाप्युपपत्तेः / भेदनिषेधवचनस्य तात्पर्यलिङ्गानुगृहीतत्त्वात् / प्रत्यक्षश्रुत्योर्यथार्थत्वे संभवति श्रुतेर्बाधा. योगाच्च। एतेन प्रत्यक्षस्योपजीव्यत्वेन बलवत्त्वात्तेन श्रुतेर्बाध इति निरस्तम् / उपजीव्यांशस्य श्रु त्याअबाधितत्वात् / भेदसत्तांशे प्रामाण्यस्यानुपजीव्यत्वात् / तथा चाहुः "उत्पादकाप्रतिद्वन्द्वित्वादि"ति / प्रत्यक्षस्य ज्येष्ठत्वेऽपि प्रत्यक्षश्रुत्योभिन्नविषयत्वान्न श्रतिबाधः। तस्मादद्वतसिद्धान्तविजये दुन्दुभिश्रुतिः / . नान्येऽतोऽस्तीति जयति भेदवादिशुगावहा // अतः शब्दपरामृष्टमेवाह-प्रत्यक्षस्येति / वर्तमानमात्रविषयस्य प्रत्यक्षस्य त्रैकालिकबाधाभावलक्षणसत्त्वागोचरत्वात् भेदवर्तमानत्वस्य च वास्तवाभेदाविरोधादभेदश्रुतेर्जघन्यवृत्त्या न गुणपरता युक्त्य र्थः / किं च "आदित्यो यूपः" इत्याद्यर्थवादस्य प्रत्यक्षविरोधेन स्वार्थपरित्यागेऽपि विध्यपेक्षितस्तुतिसमर्पणेन विध्येकवाक्यतया प्रामाण्यमुपपद्यते। अभेदश्रुतेस्त्वनन्यशेषत्वात्स्वार्थपरित्यागेऽत्यन्ताप्रामाण्यमेव स्यादित्याह--भेदनिषेधेति / किं च शास्त्रगम्याभेदसत्त्वेपि भेदप्रत्यक्षस्य तद्वति तत्प्रकारकत्वलक्षणप्रामाण्यस्य संभवान्न श्रुतिबाधकतेत्याह-प्रत्यक्षेति / ननु लोके गृहीतसंगतिकानामेव पदानां वेदे बोधकत्वात्संगतिग्रहणस्य च भेदग्राहिपदपदार्थविषयप्रत्यक्षसापेक्षत्वादुपजीव्यप्रत्यक्षविरोधेन श्रुतेरेव बाधो युक्त इत्यत आह-एतेनेति / संगतिग्रहणाय पद पदार्थभेदमात्रमपेक्ष्यते, नतु तत्सत्त्वमपि / मायाविपरिकल्पितहस्त्यश्वादावपि संगतिग्रहदर्शनात् तथा च यदुपजीव्यं भेदमात्रप्रत्यक्षं, न तछू त्याबाध्यते। यच्च बाध्यते सत्तावैशिष्टयांशविषयं, न तदुपजीव्यमित्यर्थः / उपजीव्यांश श्रुतिर्न बाधते इत्यत्राभियुक्तसंमतिमाह-तथा चाहुरिति / तथापि ज्येष्ठप्रत्यक्षविरोधे श्रुतेरेव बाधो युक्त इत्याशक्य ज्येष्ठस्यापि प्रत्यक्षस्यानुपजीव्यत्वान्न श्रुतिबाधकत्वं प्रत्युत "पौर्वापर्ये पूर्वदौर्बल्यम्" इतिन्यायाज्ज्येष्ठत्वं बाध्यत्वे हेतुरित्यभिप्रेत्याह-प्रत्यक्षस्येति / अभेदश्रुतेः स्वार्थपरत्वमुपसंहरति श्लोकेन--तस्मादिति / यस्मात् "नान्योऽतोऽस्ति" इत्यादिश्रुतिर्नान्यपरा तस्माद्वैतसिद्धान्तविजयसूचकदुन्दुभिघोषरूपं पराजितभेदवादिनां शोकं कुर्वन्ती सर्वदेशेष्वप्रतिहता प्रवर्तत इत्यर्थः // - इदानीं प्रकारान्तरेण श्रुतिप्रत्यक्षयोरविरोधमाह-किञ्चेति /