________________ 36 सटीकाद्वैतदीपिकायाम् स्वात् / तस्माभेदसत्ताग्राहि प्रत्यक्षं जलादौ गन्धप्रत्यक्षवदन्यविषयम् / अन्यश्चात्राऽऽत्मेति / "नान्योऽतोऽस्ति" इति श्रुत्या बाधितत्वाच्च न प्रत्यक्षविषयो भेदः परमार्थः। प्रत्यक्षापेक्षया श्रुतेः प्राबल्यम् श्रुतिरेव प्रत्यक्षेण वाध्यतामिति चेत् / न, अनवकाशश्रुतेः प्रत्यक्षेण बाधेsप्रामाण्यप्रसङ्गात् / प्रत्यक्षाप्रामाण्यमप्यनुपपन्नमिति चेत् / किमनुपपन्नम् ? / न हि श्रुत्येकदेशाप्रामाण्येऽध्ययनविधेरिव भेदसत्ताग्राहिप्रत्यक्षस्य सत्तावैशिष्टयांशेऽप्रामाण्ये किंचिद् बाधकमस्ति / भेदांशमात्रे तु विद्यमानार्थग्राहित्वाद्यथार्थानुभवत्वलक्षणप्रामाण्यं न हीयते / विद्यमानार्थज्ञानस्यैव यथार्थज्ञानत्वात् / भेदस्य सत्तानिषेध एव तन्मिथ्यात्वमिति न मिथ्येति नाममात्रम् / एतेनेदं परास्तं 'यथा भेद सत्ताऽधिष्ठानात्मसत्तैव, एवमभेदसत्तैव किं न स्यात्' इति / भेदप्रत्यक्षविरोधेनाऽऽरोपिताभेदाभावात् / अनारोपिताभेदस्य सद्रूपात्ममात्रत्वात् / किं च भेदस्य सद्बुद्धिविषयत्वेऽपि न पारमार्थिकत्वम्। अबाधितस्यैव परमार्थत्वात् / भेदस्य च "नान्योतोऽस्ति द्रष्टा" "नेह नानारित किं च न" "नात्र काचन भिदास्ति' इत्यादिश्रुतिशतबाधितत्वादित्याह--नान्योऽतोऽस्तीति / वैपरीत्यमेव किन्न स्यादिति शङ्कते--श्रुनिरेवेति / ___ अभेदश्रुतेरन्यपरत्वासम्भवात् स्वार्थस्यापि बाधेऽयन्ताप्रामाण्यं स्यात् / तथा चाध्ययनविधिव्याकोप इत्यभिप्रेत्य दूषयति--न. अनवकाशेति / तहि प्रत्यक्षस्या यनवकाशत्वादप्रामाण्यमयुक्तमिति शङ्कते-प्रत्यक्षेति / शुक्तिरजतप्रत्यक्षस्य बाधितार्थत्वेनाप्रामाण्यदर्शनाद् भेदप्रत्यक्षस्यापि सत्तावैशिट्यांशेऽप्रामाण्येऽपि न किञ्चिद्बाधकमस्ति, श्रुतावक्षरमात्राप्रामाण्येऽपि अध्ययनविधिविरोधात्सा सर्वत्र प्रमाणमेवेति वैषम्यमाहकिमनुपपन्नमिति / प्रत्यज्ञस्यापि धयंशे न कुत्राप्यप्रामाण्यं दृष्टमित्याशङ्कय भेदप्रत्यक्षस्थापि भेदांशे यथार्थानुभवत्वलक्षणं प्रामाण्यं न निर्यिते, सद्विलक्षणस्थापि भेदस्य प्रतिभासदशायां विद्यमानत्वादित्याह-भेदांशेति / भेदस्य विद्यमानत्वे तन्मिथ्यात्वं पारिभाषिकमित्याशङ्कयाबाध्यत्वलक्षणसत्यत्वनिषेधाद्विद्यमानस्यापि बाध्यत्वलक्षणं मिथ्यात्वं त्वदनभिमतं सिद्धमित्यभिप्रेत्याह-भेदस्येति / जीवेश्वरभेदस्यान्यसत्तया सद्वद्भाने तदभेदस्यापि तथात्वापत्त्या मिथ्यात्वं रयादिति चोद्यं वक्ष्यमाणविधया निरस्तमित्याह-एतेनेति / किमारोपिताभेदसत्ताया अधिष्ठानात्मत्वमुच्यते, अनारोपिताभेदसत्ताग वा ? / नाद्य इत्याह-भेदेति / द्वितीयं दूषयति-अनारोपितेति / शास्त्रप्रतिपाद्याभेदस्य सर्वाधिष्ठानात्ममात्रतया तदधिष्ठानस्यैवाभावादिति भावः / ननु भेदप्रत्यक्षविरोधात् "तत्त्वमसि' इत्यादेस्तद्वत् त्वमपि ज्ञानादिगुणवानसीत्येवंगुणपरत्वान्नाभेदप्रतिपादकत्वमित्यत आह--अत एवेति /