SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः / स्वतःसत्ताशून्यस्याप्यसद्विलक्षणस्य सम्भवति, शुक्तौ रजतवत् / तद्येतद्वैलक्षण्यं प्रपञ्चस्य किंनिमित्तमिति चेत् / न, सदविलक्षणत्वांशे तयोरविशेषात् / अर्थक्रियाविशेषस्तु प्रपञ्चस्याविद्यातिरिक्तदोषाजन्यत्वात् / परमते सत्यत्वाविशेषेऽपि दोषाजन्यज्ञानस्य सत्यप्रवृत्तिहेतुत्ववन्मिथ्याभूतप्रपञ्चस्यापि कारणविशेषकृतस्वरूपविशेषात्तदुपपतिरिति वक्ष्यते / वियदादेः प्रातिभासिकवैलक्षण्यम् ननु वियदादिशुक्तिरजतयोः सत्त्वविशेषाभावे किमिति रजतादिरपि वियदादिवत् स्थायी न भवेदिति चेत् / न, तव मतेऽपि सुखादेरिव तस्य स्वरूपविशेषात्स्वविषयप्रतिभाससमयनियतस्वाश्रयसंबन्धित्वाविरोधात् / शुक्तिरजतमुत्तरज्ञानादिना वा स्वजनकसामान्यज्ञानविनाशेन वा निवर्तते / तथैवान्वयव्यतिरेकात् / वियदादिकं तु न तथा / अननुभवात् / अन्वयव्यतिरेकयोमिथ्यात्वपरमार्थयोस्तुल्य निमित्तमाह--अर्थक्रियेति / शुक्तिरजतादेरविद्यातिरिक्तकाचादिदोषजन्यस्वरूपविशेषत्वान्नार्थक्रियायोग्यत्वं, वियदादेस्तु तदजन्यत्वा परीत्यमित्यर्थः / सर्वस्य मिथ्यात्वाविशेषे कथं कस्यचिद्धेतुविशेषाधीनस्वरूपविशेषार्थक्रियाविशेषः, कस्यचिन्नेत्येतद्वैषम्यमित्याशङ्कय परमते सर्वस्य सत्यत्वाविशेषेऽप्येतद्वैषम्यवत्सदन्यत्वेऽपि तदुपपत्तिरित्याहपरमते इति / इदानीं तृतीयं शङ्कते--नन्विति / सर्वसत्यत्वमते यथा स्वरूपविशेषादेव घटादेश्चिरस्थायित्वं, सुखदुःखादेश्च नियमेनाशुतरविनाशित्वम्, एवं मिथ्यात्वमतेऽपि स्वरूपविशेषादेव कस्य चिच्चिरस्थायित्वं, शुक्तिरजतादेश्च स्वप्रतिभासकाल एव विद्यमानत्वमिति परिहरति-न, तवेति / ननु सत्यत्वमते स्वविनाशहेतुसमवधानावधिकसत्त्वं सर्वस्यानित्यस्य तुल्यं सुखादेरपि द्वितीयक्षण एव' विनाशहेतोः स्वविषयज्ञानादेः सन्निधानान्नियमेन तृतीयक्षणे विनाश इत्याशङ्कय सदन्यत्वमतेऽपीदं तुल्यं शुक्तिरजतादेरपि विनाशहेतुसमवधानपर्यन्तं विद्यमानत्वाङ्गीकारादित्यभिप्रत्य तद्विनाशहेतुमाह-शुक्तिरजतमिति | अनिर्वचनीयरङ्गाकाराद्युत्पत्तिरादिपदार्थः / सुषुप्तिपूर्व तणे कस्यचिद्रजतभ्रमसंभवात्तस्य चोत्तरज्ञानादेरभावात्कथं विनाश इत्याशङ्कयाह-स्वजनकेति / वियदादिकं तु नोक्तकारणविनाश्य, तद्विनाशे तस्यान्वयाद्यननुभवादित्याह-वियदादीति / ननु मिथ्यापदार्थानामन्वयव्यतिरेकावेवानुपपन्नौ / न हि खपुष्पादेः कुत्रचिदन्वयाद्यस्तीत्याशङ्कय प्रपञ्चस्यासद्वैलक्षण्याभ्युपगमात्तत्समानस्वभावावन्वयव्यतिरेकावुपपद्येते, इतरथा सत्यस्याप्यन्वयव्यतिरेको कुत्रापि ममासंप्रतिपन्नाविति तव मतेऽपि तदनुपपत्तिस्तुल्या, इत्यभिप्रेत्याह-अन्वयेति / अन्यसत्तयैव 'भेदः सन्' इति प्रतीयते न स्वसत्तयेति सदृष्टान्तनुपसंहरति-तस्मादिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy