________________ 34 सटीकाद्वैतदीपिकायाम् जगति आत्मसत्ताभनम्: ननु भेदनिष्ठतया प्रतीयमाना सत्ता कथमात्मसत्ता ?, अन्यधर्मस्यान्यनिष्ठत्वेन प्रतीत्ययोगादिति चेत् / न, अनिदमपि रजते ऽधिष्ठानेदन्तासंसर्गानुभवकसत्तासंसर्गानुभवस्याप्यविरोधात् / नन् यद् यन्निष्ठतया प्रतीयते, तत् तस्यैवेत्युत्सर्गस्य क्वचिद्बाधादपवादः / न चात्रास्ति बाधः / ततः सन् घट इति बुद्धिर्घटस्यात्मातिरिक्तसत्ताविषयेति चेत / न, "तदात्मानं स्वयमकुरुत" इतिप्रतिपन्नब्रह्मविवर्त्तत्वस्य जगतः सादेरिवाधिष्ठानात्मसत्तातिरिक्तसत्ताऽभावस्यैवात्र बाधकत्वात् / सद्रूपात्माऽभेदात् स्वतः सत्ताशून्यस्यापि घटादेः सद्बुद्धिविषयत्वे संभवति सत्तान्तरकल्पनागौरवाच्च // ननु प्रपञ्चस्थ पृथक सत्ताऽनभ्युपगमे कथं तस्य स्वकार्य प्रति हेतुत्वं नियतपूर्वक्षणे सत एव हेतुत्वादितिचेत् / न, हेतुत्वे पूर्वक्षणे विद्यमानत्वमात्रमपेक्ष्यते, न तु सत्त्वम् / तस्याप्रयोजकत्वात् / तत्र विद्यमानत्वं च तत्सम्बन्धाश्रयत्वम् / तच्च अत्र कल्पितभेदेन सत्ताया आत्मधर्मत्वोक्तिरिति द्रष्टव्यम् / किमन्यसत्तयाऽन्यस्य सत्त्वेन प्रमितिराक्षिप्यते उत भ्रान्तिः। नाद्यः / इष्टापत्तेः। द्वितीये नानुपपत्तिरिति सदृष्टान्तमाह-न, अनिदमिति / मिथ्यारजते इदन्तासंसर्गस्य बाधितत्वात्तदनुभवो भ्रमः, अनात्मनि तु सत्तासंसर्गस्याबाधितत्वान्न तदनुभवो भ्रम इति वैषम्यं शङ्कते - नन्विति / बाधकाभावोऽसिद्ध इति दूषयति-नेति / “तदात्मानं स्वयमकुरुत बहुस्यां प्रजायेय, सच्च त्यच्चाभवत्" इत्यादिश्रुतिभिः कारणस्यैव कार्यात्मतापत्तेरभिधानात् / पूर्वरूपे स्थिते नष्टे वा वस्तुतोऽन्यस्यान्यात्मकतानुपपत्तेर्मायया ह्यन्यदिवयत्र वा अन्यदिव स्यादि तोवशब्देन भिन्नप्रपञ्चस्य मिथ्यात्वोक्तेश्च रज्जुसर्पवद् ब्रह्मणोऽतत्त्वतोऽन्यथाभावत्वात् जगतस्तद्विवर्त्तत्वं वाच्यम् / विवर्तस्य चाधिष्ठानसत्तयैव सहृद्भानमिति न स्वतः सत्तास्तीत्यर्थः। प्रपञ्चसत्ताग्राहिप्रत्यक्षस्य युक्तिबाधमप्याह-सद्रूपेति / प्रपञ्चस्य स्वतःसत्ताभावे कार्यकारणभावायोगाद् व्यवहाराभावः स्यादिति शङ्कते--नन्विति / . नियतस्य पूर्वक्षणे सत्तासंबन्धित्वापेक्षया लाघवानियतपूर्वक्षणसंबन्धित्वमेव हेतुताप्रयोजकमिति न सत्त्वं विना तदनुपपत्तिरिति दूषयति--न हेतुत्वे इति / विद्यमानत्वमेव सत्त्वमन्तरेणानुपपन्नमित्याशङ्कय मायारजतवत्सद्वैलक्षण्यमात्रेण तदुपपत्तिरित्याहविद्यमानत्वं चेति / घटादेः स्वतःसत्त्वाभावे शुक्तिरजतादिवलक्षण्यानुपपत्तिरिति शङ्कते-- तीति / घटादेः किं सत्त्वमेव, ततो वैलक्षण्यं, यदनुपपन्नं स्याद्, उतार्थक्रिया, किं वा चिर शायित्वम् ? / नाद्यः, धटादेरपि सत्त्वाभावादित्याह-न सदिलक्षणत्व इति / द्वितीये