________________ द्वितीयः परिच्छेदः तव मतेऽपि सर्वशब्दस्यासंकुचद्वत्तेरयोगात् / जगत्सर्जन-लक्ष्मीविहरणादिकामानां जीवेषु वाधितत्वात् / पृथग्जनानां तत्र तत्र क्रमेण सवैः काम्यरमरवधूपरिरम्भणादिभिरभिव्यङ्ग्यं यत्सुखं ब्रह्मात्मकं तदभिप्रायेण वा सर्वान्कामानिति / तृतीया चेत्थम्भावे / ब्रह्मरूपेण मुक्तः सह युगपत् परमानन्दमनुभवतीत्यर्थः। तथा च स्मृतिः सोऽश्नुते सकलान् कामानक्रमेण सुरर्षभाः। विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः॥ इति / सर्वेष्वित्यादिभूमप्रकरणस्थं वाक्यं निर्गुणविद्यास्तुतिपरमिति न भेदे प्रमाणम् / सर्वज्ञतापरं वा / गत्यर्थस्य ज्ञानार्थत्वात् / “अथ यदल्पं भिन्नं तन्मय॑म्" इति तद्भेदस्य तत्रैव निन्दितत्वात् / तस्मान्नश्रु तिर्भेदे प्रमाणम् / नापि प्रत्यक्षम् / तद्धि भेदसत्तामात्रं विषयीकरोति / सा चाधिष्ठानात्मव न ततोऽतिरिच्यते। भेदसत्ताया आत्मस्वरूपातिरेके प्रत्यक्षस्योदासीनत्वात् / अन्यस्य च तत्र प्रमाणस्याभावात् // ___ असम्भवमेवाह-जगत्सर्जनेति / सर्वशब्दस्याशेषवाचकत्वादशेषसुखात्मकब्रह्माभिव्यक्तिपरमेवेद फलवचनमित्याह-पृथग्जनानामिति / एवं पराभिमतमर्थं दूषयित्वा स्वाभिमतमर्थमाह-तृतीया चेति / उक्तार्थे एतच्छु तिमूलकब्रह्मगीतावचनसंमतिमाहतथा चेति / यदप्युक्तं सर्वेषु लोकेषु कामवारो भवतीति भूमविद्याफलत्वेन भेदः श्रूयते' इति, तदन्यथयति-सर्वेष्विति / विषयसप्तमी चरतेर्गत्यर्थत्वं चाङ्गीकृत्यार्थान्तरमाहसर्वज्ञतेति / स्तुतिपरत्वमेव न भेदपरत्वमित्यत्र हेतुमाह-अथ यदल्पमिति / मानाप्रसिद्धित इतिप्रतिज्ञाविषयः श्रुतिप्रामाण्याभावस्तावत्सिद्ध इत्याह-तस्मादिति / इतरप्रमाणेष्वपि प्रत्यक्षं तावद् भेदे न मानमित्याह--नापीति / सन् भेद इति प्रत्यक्ष भेदस्य सत्त्वमनुभूयते। तथा च कथं तत् तत्र न मानमित्याशङ्कयाह--तद्धीति / यथा मृद्घट इति प्रत्यक्षे मृदिति घटोपादानमेवानुभूयते, एवं सन् भेद इत्यत्र सद्बुद्धरधिष्ठानविषयत्वान्न भेदस्य सत्त्वमित्यर्थः। . ननु आत्मातिरिक्तसत्ताजातिरेव सबुद्धेविषयो न त्वात्मेत्याशङ्कय सत्ताया आत्मातिरेके किं प्रत्यक्षमेव मानमुतानुमानादि ? / नाद्य इत्याह-भेदसत्ताया इति / सद्रूपात्मन एव सर्वजडाधिष्ठानतया सदाकारानुगतबुद्धयालम्बनत्वोपपत्ते तत्प्रत्यक्षमतिरिक्तसत्तामपेक्षते इति भावः / उभयवादिसंप्रतिपन्नसद्रूपात्मतादात्म्यादेव' सर्वत्र सद्व यवहारोपपत्तेरतिरिक्तसत्ताकल्पने गौरवान्न तत्रानुमानादेरपि प्रवृत्तिरित्याह-अन्यस्येति / ___ ननु सत्ताया आत्मधर्मत्वे तदन्यस्य घटादेः कथं सत्त्वेन प्रतिपत्तिः ?, न हि प्रासादधबलिम्ना काकोऽपि धवलः प्रतीयते, इति शङ्कते-नन्विति /