SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ' सटीकाद्वैतदीपिकायाम् यत्तु न तत्रमायेत्यादिवचनम् / तदपि रजस्तमसोः कार्यमात्रनिषेधपरम् / भेदावस्थायां स्वरूपेण मायानिषेधानुपपत्तेः / वैकुण्ठवासिनां मायावशित्वाद्वा मायानिषेधवचनम् / यदपि 'सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा' इति वचनमुदाहुतम् / तत्र न तावत्सहश्र तिब्रह्मणा सहत्वं दर्शयन्ती भेदं दर्शयति। ब्रह्मणः सहत्वायोगात् // सहपदार्थ विचार: सहत्वं हि ब्रह्मणः-पुत्रेण सहागतः पितेत्यत्रेव प्रधानक्रियानुकूलतज्जातीयक्रियाकर्तृत्वेन, किं वा पत्न्या इवानुज्ञामात्रेण ? / नाद्यः। ब्रह्मणोऽपि भोगप्रसङ्गात् / न द्वितीयः / ईश्वरस्य प्राणिमात्रभोगे अनुज्ञादातृत्वान्मुक्तौ तस्य विशिष्यनिर्देशवयात् / ब्रह्मणः सहत्वे भृत्येन सह भुङ्क्ते राजेत्यत्र भृत्यस्येवाप्राधान्यमावश्यकमिति तस्य सर्वशेषित्वमपि भज्येत / न च गर्भदासन्यायेन शेषस्यापि प्राधान्यम् / स्वामिनि भाविभृत्योपकारवत्, ईश्वरेह्यकामे मुक्तकृतोपकाराभावात् / तस्माद् ब्रह्मणः सहत्वायोगान्न सहयोगे तृतीया, नापि सर्वान् कामानिति सर्वशब्दबहुवचनाभ्यां मुक्तावनात्मभेदसिद्धिः / तयोरल्पत्वनिवृत्तिमात्रपरत्वात् / रजस्तमसोरिति / सत्त्वकार्यज्ञानसुखादेस्तदा सत्त्वेन तनिषेधायोगादिति भावः। मायाशब्देन तत्कार्यलक्षणायां हेतुमाह-भेदेति / 'मायां तु प्रकृति विद्यात्'इति मायायाः सर्वकार्यप्रकृतित्वश्रवणान्मायाऽभावे वैकुण्ठवासिनां शरीराद्यभावापत्तेरिति भावः / वैकुण्ठवासिनामिच्छामनुसरति मायेत्येतावता वा न तत्र माया, इत्युक्त मित्याहवैकण्ठेति / परोदाहृतश्रु तिवाक्यमपि स्वमतानुरोधेन व्याख्यातुमनुवदति-यदपीति / किमत्र सह ब्रह्मणेति सहश्रु तिबलाज्जीवब्रह्मभेदः प्रतीयते इत्युच्यते, किं वा सर्वान्कामानिति सर्वशब्दबहुवचनबलाद्विजातीयभेद इति ? / नाद्य इत्याह-न तावदिति / ___ अयोगमेवोपपादयितुं कामभोगे ब्रह्मणः केन प्रकारेण सहत्वमिति पृच्छतिसहत्वं हीति / . पुढे पितृगमनानुकूलगमनवत् ब्रह्मण्यपि विद्वद्भोगानुकूलभोगः स्यात् / तथाप तस्य नित्यतृप्तत्वादिविरोध इत्यभिप्रेत्याह--नाद्य इति / द्वितीये किमीश्वरस्य मुक्तभोग एवानुज्ञातृत्वमुत सर्वप्राणिभोगे ? नाद्यः। सर्वकर्मफलदातुरीश्वरस्य संसारिभोगेऽप्यनुज्ञातृत्वादित्याह-ईश्वरस्येति / द्वितीये दोषमाह--मुक्ताविति / पक्षद्वयेऽपि ब्रह्मणः पुत्रवत्पत्नीवच्च गुणत्वमपि स्यात् / “सहयुक्तेप्रधाने"इति स्मरणादित्याह-ब्रह्मण इति / ननु यथा स्वामिनो दासीबालकपोषकत्वेऽपि न तच्छेषत्वमेवमीश्वरस्य' मुक्तभोगानुकूलस्यापि न तच्छेषत्वमित्याशक्य वैषम्यमाह-न चेत्यादिना / गुणत्वादिप्रसङ्गेन ब्रह्मणः सहत्वायोगान्न सहयोगे तृतीयेत्याह--तस्मादिति / सर्वशब्दबहुवचनयोः मुक्तौ भोगतारतम्याभावमात्रपरत्वान्न विजातीयभेदसिद्धिरित्यभिप्रेत्याह-तयोरिति / यथाश्रुतपरित्यागे हेतुमाह- तव मते इति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy