SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः / 31 मेव मन्यमानः शतधा सहस्रधा भिन्नो, मृत्योः समृत्युमाप्नोति" इति श्रु त्या भेदज्ञानस्यानर्थहेतुत्वप्रतिपत्तेः / तत्स्वरूपनिषेधाच्च / 'भयं द्वितीयाभिनिवेशतः स्यात्' इति स्मृतेश्च / "तत्र को मोहः कः शोक एकत्वमनुपश्यतः / यन्मदन्यन्नास्ति, कस्मान्नु बिभेमि / तदिदमप्येतहि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्व भवति" इत्यभेदज्ञानात् भयनिवृत्तिश्रयःप्राप्त्योईशितत्वाच्च / तस्मान्न भेदज्ञानान्मोक्षः // मुक्तौ भेदसद्भावनिरासः यत्तु मुक्तावपि सत्त्वाद्भेदः परमार्थ इति तदसत्। विदुषः सर्वात्मत्वप्रतिपाकोदाहृतश्र तिविरोधात् / “मम साधयंमागता" इति वैधर्म्यनिषेधद्वारा ऽभेदपरम्। "ज्ञानी त्वात्मैव मे मतम् / क्षेत्रज्ञं चापि मां विद्धि" इत्यादिना भगवतैवाभेदस्योतत्वात्। स्थेयमित्याह भयंद्वितीयेति / अभेदज्ञानस्य त्वनर्थनिवर्तकत्वपुरुषार्थहेतुत्वश्रवणात् स एव श्रुत्यर्थ इत्याह-तत्र को मोह इति / 'सहायमीक्षाञ्चक्रे' इतिपूर्ववाक्योक्तहिरण्यगर्भेक्षणस्वरूपमाह-यन्मदन्यन्नास्तीति / मत्तोऽन्यन्नास्ति यतः, अतः कस्माद् हेतोरहं बिभेमीदेत्यर्थः। यस्मादेवादयो ब्रह्मात्मतया ज्ञात्वा तदेवाभवन् / तत्-तस्मात् / एतर्हि इदानीमपि / अहं ब्रह्मास्मीति यो वेद स सर्वात्मकं ब्रह्मैव भवतीत्यर्थः / पराभिमतश्रुत्यर्थनिराकरणमुपसंहरति-तस्मादिति / . इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः / - इतिस्मृती, ‘-सोऽश्नुते सर्वान्कामान्" इत्यादिश्रुतौ च मोक्षेऽपि भेदश्रवणात्स , परमार्थ इत्युक्तं चोद्यमनुवदति-यत्त्विति / ____ तत्र स्मृतिवाक्यं तावदभेदपरानेकश्र तिविरोधात् तदा नामरूपविलयश्र तेः सादृश्यासंभवाच्च तदानुगुण्येनैव व्याख्येयमित्याह-तदसदित्यादिाना / भेदपरत्वाभिधानं पूर्वापरवचनविरुद्धं चेत्याह-ज्ञानीति / “सर्वभूतेषु येनैकं भावमव्ययमीक्षते' इत्यादिकमादिपदार्थः / भगवद्वचनमपि अहमेवासमेवाने नान्यद्यत्सदसत्परम् / पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् // अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् / एवं समीक्षन्नात्मानमात्मन्याधाय निष्कले / इत्यादिपूर्वापरवचनसहस्रविरोधादुदाहृतानेकश्रु तिविरोधच्चावान्तरमुक्तिपरम् / कथं तर्हि तत्र मायानिषेध इत्याशङ्कय तदभिप्रायमाह- यत्त्वित्यादिना /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy