________________ 30 सटोकाद्वैतदीपिकायाम् अत्र होते सर्व एकीभवन्ति / आत्मा ह्येषां स भवति" इत्यादिश्रु तिभिर्विदुषः सर्वात्मत्वप्रतिपादनात् / एतेन द्वासुपर्णेत्यादेर्भेद उपक्रमादिभिनिराकृतः। प्रत्यक्षादिसिद्धस्य भेदस्य श्रु त्योपक्रमादिभिरप्रतिपाद्यत्वाच्च / प्रत्यक्षाद्यसिद्धभेदाभावाच्च // पृथगात्मानमिति श्रुत्यर्थस्याद्वैनानुकूलता यत्तु "पृथगात्मानं प्रेरितारं च मत्वा" इत्यादिवाक्याद्धदज्ञानान्मुक्तिरिति / तदसत् / आत्मानं कार्यकारणसंघातात पृथग्विलक्षणं मत्वा न पदार्थज्ञानमात्रान्मुक्तिरिति वाक्यार्थमीश्वरतादात्म्यमप्याह--प्रेरितारं च मत्वेति / पृथक्तयाऽवगतमेवात्मानं प्रेरितारं मत्वा ईश्वर इति ज्ञात्वेत्यर्थः / तेनामृतत्वं प्राप्नोतीत्यभेदज्ञानादेव / तत्रापि मोक्षस्य दर्शितावात् / प्रकारान्तरेण तदर्थकथने कथितनियमश्र - तिविरोधात् / “उदरमन्तरं कुरुते, अथ तस्य भयं भवति / मृत्योः स मृत्युमाप्नोति, य इह नानेव पश्यति / नात्र काचन भिदास्ति / नवात्र काचन भिदास्त्यत्र भिदा आत्मा ह्यषामिति / स विद्वान् एषां देवानामात्मा भवतीत्यर्थः / आदिपदेन 'तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं, सूर्यश्च'इत्यादिश्रुतिः संगृहीता। एवमाथर्वणश्रुतेरद्वितीय एवोपक्रमादेरुपपादनात् परोक्तभेदविषयोपक्रमादिरयुक्त इत्याह-एतेनेति / मानान्तरानधिगतस्यैव सर्वत्रोपक्रमादिभिः प्रतिपाद्यत्वाद्भदस्य चातथात्वान्न श्रुतिगम्यतेत्याह-प्रत्यक्षादीति / अस्तु तीपूर्वभेद एव श्रुतिप्रतिपाद्य इत्याशङ्कयाहप्रत्यक्षेति / “पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' इति श्रुतौ भेदज्ञानादेवामृतत्वश्रवणाद् अन्यत्रापि तथेत्युक्तं चोद्यमदुवदति-यत्त्विति / आत्मानं प्रेरितारं च पृथङ् मत्वाऽमृतत्वमेतीति नैतच्छुत्यर्थः। पामराणामपि तादृशमननसत्त्वेनामृतत्वप्राप्तिप्रसङ्गात् / किं तु शरीराद्यभेदेन गृहीतमात्मानं ततः पृथङ् मत्वा पृथक्कृतमात्मानं प्रेरितारं च मत्वा ईश्वरत्वेन च निश्चित्यामृतत्वमेतीत्येवमर्थपरेयं श्रुतिरित्याह-तदसदिति / आत्मानं प्ररितारं च पृथङ् मत्वेत्यर्थकथने 'तमेव विदित्वा' इत्यादिश्रु तिविरोधश्चेत्याह-प्रकारान्तरेणेति / भेदज्ञानस्यानर्थहेतुत्वाच्छु,तिबाधितविषयकत्वेन भ्रान्तित्वाच्च न मोक्षहेतुतेत्याह-उदरमिति / उद्-अपि / अरम्अल्पम् / अन्तरं-भेदम् / अल्पमपि भेदं यः साधयतीत्यर्थः / नानेवेति इवशब्देन नानात्वस्य मिथ्यात्वमुच्यते। तथा च मिथ्याभूतं नानात्वं पुरुषार्थतया यः पश्यति, स मृत्योरनन्तरमपि पुनर्मृत्युमाप्नोतीत्यर्थः तत्स्वरूपेति / 'नात्र काचन भिदा'इत्यादिना भेदस्वरूपस्यापि निषिद्धत्वादित्यर्थः। उक्तश्रु तिमूलकस्मृतितोऽपि द्वैतबुद्धर्भयहेतुत्वमा