________________ द्वितीयः परिच्छेदः 29 "ब्रह्म वेद ब्रह्मव भवति" इतिवाक्यशेषविरोधात / अत्र च ज्ञानाच्छोकनिवृत्तिन सुप्त्यादाविव सावशेषा / किं तु तत्कारणपुण्यपापयोस्तत्कारणाज्ञानस्य च निवृत्तस्वावात्यन्तिकी, इत्याह "यदा पश्यः पश्यते रुक्मवर्णम्" इति / निरञ्जन इत्यविद्याराहित्योक्तिः / परमं साम्यमित्यैक्यमाह / अत्यन्तसादृश्यस्य एकत्वे एव पर्यवसानात् / भेदगर्मसादृश्यस्य "न तत्समश्चाभ्यधिकश्च दृश्यते, न त्वत्समोऽस्त्यभ्य. धिकः कुतोऽन्य" इत्यादिश्रुतिस्मृतिििनषिद्धत्वात् / परमसाम्यपदार्थविचारः ___"तथा विद्वान् नामरूपाद्विमुक्तः" इत्यादिना मुक्तौ नामरूपराहित्यप्रतिपादनात्, सादृश्यायोगाच्च, साम्यं समत्वं सर्वात्मत्वमिति वा / "तस्मात्तत्सर्वमभवत् / ईशं सन्तं, यदा पश्यतीति योजना। नन्वत्राज्ञाननिवृत्तिर्न श्रूयते इत्यत्राह-निरञ्जन इति / परमं साम्यमुपैतीतीश्वरसादृश्यमत्र ज्ञानफलतया श्रूयते / तच्च मुक्तावपि भेदमन्तरेणानुपपन्नमित्यत आह-परममिति / वैलक्षण्यस्याल्पत्वापेक्षया साम्ये परमत्वनिर्देशो न त्वैक्यापेक्षयेत्याशङ्कयाह-भेदगर्भेति / किं चात्रैव तृतीयमुण्डके यथा नद्यः स्यन्दमानाः समुद्रे ऽतं गच्छन्ति नामरूपे बिहाय / तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति नित्यम् // इति विदुषो नामरूपविलयश्रवणात् त्वदभिमतसारूप्यायोग इत्याह तथा विद्वानिति / नन्वत्र प्राकृतनामरूपयोरेव विलयः श्रूयते, न त्वप्राकृतयोरिति चेन्न / सङ्कोचे कारणाभावात् / समुद्रप्रविष्टनदीदृष्टान्तेन कृत्स्ननामरूपविलयस्यैव प्रतीतेः। अन्यथा दृष्टान्तवैषम्यापत्तेः / नामरूपमात्रस्य प्रकृतिकार्यत्वेनाप्राकृतयोस्तयोरभावाच्च / अन्यथा विदुषः प्राकृतशोकविलय' एव वीतशोक इति श्रुत्यर्थ इति अप्राकृतनित्यशोकस्तस्य स्यात् / न च तत्र मानाभावः / “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति" इति सशरीरस्य प्रियाप्रियसंसर्गनियमोक्तेः / त्वदभिमतमुक्तानाञ्च सशरीरत्वादिति भावः / साम्यशब्दस्य सादृश्यवाचकत्वेऽपि परममितिविशेषणादभेदे पर्यवसानमित्युक्तम् / संप्रति तस्यार्थान्तरमाह-साम्यमिति / श्रुत्यन्तरे सर्वात्मभावस्यैव ज्ञानफलत्वेनोक्तत्वादत्रापि साम्यपदेन तदेवोच्यते इत्याह-तस्मादिति / अहं ब्रह्मास्मीति ज्ञानादित्यर्थः /