SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 28 सटीकाद्वैतदीपिकायाम् श्वराभेदसाक्षात्कारातन्निवृतिमाह-जुष्टं कार्यकारणसंघातः सेवितम अविवेकिभिस्तदात्मतया गृहीतम् / यदाधिकारी अन्यं विवेचनात् शरीर त्रयात्पृथग्भूतं शरीरत्रयसाक्षितयाऽवगतं शोधितत्वंपदार्थ ईशमीशं सन्तं पश्यति / ईश्वर इति स्वात्मानं पश्यति / साक्षात्करोतीति यावत् / तदाऽस्यात्मत्वेनावगतस्य महिमाममपरिच्छिन्नानन्दात्मतामेति इति नान्तरीयकतयाऽनर्थनिवृत्ति च दर्शयति बीतशोक इति। अथवा जुष्टं विवेकवंराग्यादिभिः प्रक्षालिताशयमलैः सनकादिभिनेरन्तयेणात्मत्वेन सेव्यमानमन्यं कार्यकरणसंघाताद्विलक्षणमीशं यदा पश्यतीत्यर्थः / न तु पदातीतादन्यं पश्यति / तदा तस्य महिमानमाप्नोतीत्यर्थः तथा सति जीवेश्वरतदुभयभेदानां ज्ञानं मुक्तौ हेतुः स्यात् / तथा च "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिज्ञानज्ञेयनियमश्रुतिविरोधः स्यात् / किं च भेदे 'तस्य महिमानम्' इत्येतद्विरुद्धम् / अन्यस्यानदीयमहिमप्राप्त्ययोगात् / तत्सदृशमहिमानमितिकल्पनायां लक्षणाप्रसङ्गात् / अत एव न स्तुतिमात्रपरतयाऽपि व्याख्येयम् / सम्भवति मुख्यार्थेऽत्यन्तपरोक्षार्थताया अन्याय्यत्वात् / व्याकरोति-अथ वेति / एवं स्वमतेन मन्त्रार्थमभिधाय पराभिमतमर्थं दूषयतिनत्विति / जीवप्रतियोगिकभेदवानीश्वर इति ज्ञानस्य मुक्तिहेतुत्वे तस्य भेदतर्मिप्रतियोगितत्त्वावच्छेदकरूपानेकपदार्थविषयत्वं वक्तव्यम् / तथा च "तमेव विदित्वाऽतिमृत्यु - मेति” “एकवानुद्रष्टव्यम्" "तमेवैकं जानथआत्मानम्" "तमेव धीरो विज्ञाय" इत्यादिश्रुतिष्वात्ममात्रज्ञानस्यैव मुक्तिहेतुत्वावधारणधीविरोध इत्याह--तथा सतीति / ___किं च पराभिमतार्थे मन्त्रशेषस्येश्वरस्य महिमानमेतीति यथाश्रुत एवार्थः, उत तत्समानमहिमानमिति ? / आधस्त्वसम्भवीत्याह-किं चेति / द्वितीयं दूषयति / तत्सदृशेति / ननु नेदं फलवचनं, किं तु भेदज्ञानस्तुतिपरमित्याशङ्कय स्तुतेरपि लक्ष्यत्वादुक्तदोषतादवस्थ्यमित्याह-अत एवेति / लक्षणायाः क्वचित् क्वचिन्मतद्वयेऽप्यङ्गीकारान्न दोषतेत्याशङ्कयाह-सम्भवतीति / “स यो हवै तत्परमं ब्रह्म वेद. ब्रह्मैव भवति" इति तृतीयमुण्डकसमाप्तौ ब्रह्मभावस्यैव ज्ञानफलत्वेनोपसंहृतत्वादस्य महिमानमिति न स्तुतिमात्रमिप्याह-ब्रह्म वेदेति / यदा पश्यः पश्यते रुक्मवणं कर्तारमीशं पुरुषं ब्रह्मयोनिम् / तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यनुपैति // इति तृतीयमन्त्रमप्याकाक्षितसमर्पणेनोक्तार्थपरतया व्याकरोति-अत्र चेति / पश्या-द्रष्टा अधिकारी, कर्तारं पुरुष-जीवं, रुक्मवर्ण-स्वप्रकाशं, ब्रह्मयोनि-वेदयोनिम्,
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy