SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 27 द्वितीयः परिच्छेदः / तदनन्तरं च कथं भोक्तु वस्याशनादिराहित्यं स्वरूपम् / आगन्तुकस्य स्वरूपत्वायोगात् / न च तत्स्वाभाविकं जीवस्येदानी भोगविशिष्टत्वात् / न हि दण्डविशिष्टस्तदानीमेव तदभावविशिष्टो भवतीत्याशङ्कय भोगस्य कल्पितत्वादधिष्ठानस्य कालत्रयेऽप्यारोप्यशून्यत्वाद् दण्डिवैषम्यम् / न हि सर्पबुद्धिगृहीता रज्जुस्तदानीमपि सर्परहिता न भवतीत्यभिप्रेत्याह-समाने वृक्षे पुरुषो निमग्न इति / समाने बिम्बप्रतिबिम्बरूपजीवेश्वराश्रये शरीरे पुरुषो बुद्ध्युपहितो निमग्नः कर्तृत्वाद्यभिमानवान् / स्वरूपेणाप्रकाशान्निमग्नः। अत एव तत्कारणमोहावतो ऽनीशया स्वस्यानन्दरूपेश्वरभावाप्रतीत्या शोचति / विषयागमापायनिमित्तं दुःखमनुभवति / अनीशा पदार्थ निरूपणम्-- न चानीशशा ईश्वरत्वाभावस्तृतीयया शोकहेतुत्वेन निर्दिष्टो, न तु तदप्रतिपत्तिरिति वाच्यम् / तथा सति तव मते तस्य मुक्तावपि सत्त्वेन तदापि तन्निमित्तशोकप्रसङ्गादस्मन्मत इदानीमपि तदभावादज्ञानमेवानीशा। अत एव जीवे .. अनश्नन्नित्युक्तमशनादिराहित्यं किं जीवस्यागन्तुकमुत स्वभाविकम् ? / आद्यपि तत्तस्य स्वरूपं धर्मो वा ? नाद्यः। आगन्तुकस्य नित्यस्वरूपत्वायोगात् / न द्वितीयः। अनशनस्यागन्तुकधर्मत्वेऽशनस्य स्वाभाविकत्वप्रसङ्गात् / द्वितीये तत्किं स्वरूपं धर्मों वा? : उभयथापि तस्याशनायादिमत्त्वानुभवविरोध इति शङ्कार्थः। अनशनस्य स्वाभाविकत्वमेवाङ्गीकृत्योक्तशङ्कापरिहारायोत्तरमन्त्र इत्यभिप्रेत्य परिहारप्रकारमाह-भोगस्येति / आरोपितविपरीताकारः स्वभाविक एवेत्यत्रोदाहरणमाह-नहीति / मन्त्रं व्याचष्टे-समान इति / जीवेश्वराश्रय इति / तदभिव्यक्तिस्थानत्वात्तदाश्रय इत्यर्थः / निमग्नः सर्वगतस्य वस्तुतो निमज्जनासंभवादित्यभिप्रेत्य निमग्नसादृश्यमाह-स्वरूपेणेति / तत्र हेतुमाह-कर्तृत्वेति / अत एवेत्यस्य शोचतीत्यनेनान्वयः। निमग्नस्यापि ब्रह्मरूपत्वात्कथं शोक इत्याशक्य विस्मृतकण्ठचामीकरवत्सतोऽपि ब्रह्मभावस्याननुभवाच्छोक इत्याह-अनीशयेति / तस्य स्वप्रकाशत्वादननुभवो वा कथमित्याशङ्क्याविद्यायाऽवृतत्वादित्याह--तत्कारणेति / कर्तृत्वादिस्तच्छब्दार्थः। नन्वनीशयेत्यत्र श्वरत्वाभाब एव शोकहेतुतया प्रतीयते / स च जीवेश्वराभेदमतेऽनुपपन्न इत्याशक्य भेदिमतेऽपि तस्य शोकहेतुत्वमनुपपन्नमतिप्रसङ्गात् / तस्मादभेदश्रुत्यनुरोधाय तदप्रतीतिरेवानीशेत्याह-न चानीशेति / यत एवाज्ञानमेव शोकहेतुरत एव तद्विरोधिज्ञानाच्छोकनिवृत्तिरुत्तरार्द्ध श्रूयत इत्याह-अत एवेति / जुष्टमितिपदं त्वं पदार्थविषयतया व्याख्याय तत्पदार्थविषयतयाऽपि
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy