SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् अनुवादस्यापि तत्र तात्पर्ये विद्वद्वाक्यमपि विधायकं स्यात् / अनधिगतार्थ: बोधकस्यैव प्रमाणत्वाच्च / तात्पर्यद्वयकल्पनागौरवाच्च / ततो नानुवादः स्वार्थपरः। एतेन प्रत्यक्षस्याप्रामाण्येन वेदस्यानुवादकताप्रामाण्ये च तेनैव भेदसिद्धिः। अनुवाद्यस्या सत्त्वे च नानुवाद्यविधेयसंसर्गसिद्धिरिति परास्तम्। असदनुवादस्यापि दर्शनात् / व्यावहारिकप्रमाणसिद्धत्वमात्रेणानुवादोपपत्तेश्च / तत्त्वावेदकप्रमाणसिद्धस्यवानुवाद इत्यत्र निदर्शनाभावात् / अनुवाद्यस्य चासत्त्वं यदि तुच्छत्वम् ? तदसत् / प्रपञ्चस्य तुच्छत्वानभ्युपगमात् / यदि सद्विलक्षणत्वं ?, तहि तद् भूषणमेव विधेयसंसर्गस्यापि तथात्वात् / अन्यथा प्रकृते निषेधाऽनन्वयप्रङ्गात् / तस्माद् द्वासुपर्णेति वाक्यं शुद्धजीवस्वरूपपरं न भेदपरमिति // शब्दस्य जिज्ञासितार्थबोधकत्वेन प्रामाण्यं वक्तव्यम् / अन्यथा तद्वैयर्थ्यात्। जिज्ञासा च न निति इति नानुवादस्य प्रामाण्यमित्याह--अनधिगतेति / किं च तव मते जीवेशभेदे जीवभोगे ईश्वराभोगे चानेकतात्पर्यकल्पनागौरवं वाक्यभेदश्चेत्यभिप्रत्याह-तात्पर्येति / तत इत्युपसंहारः। एवं परमतं दूषयित्वा स्वमते उक्तदोषं परिहरति--एतेनेति / तत्र भेदप्रत्यक्षस्याप्रामाण्ये वेदस्य नानुवादकतेत्येतत्तावद् दूषयति--असदनुवादस्येति / सद्विलक्षणस्य भ्रान्तिप्रतिपन्नशुक्तिरजतादेरपि यद्रजतमित्याद्यनुवाददर्शनादित्यर्थः। किं च वेदस्यानुवादकत्वानुपपत्त्या प्रत्यक्षस्य प्रामाण्यमानं साध्यते उत तत्त्वावेदकप्रामाण्यम् ? / आद्यमिष्टमित्यप्रत्याह--व्यावहारिकेति / द्वितीयं दूषयति-तत्त्वावेदकेति / अनुवाद्यस्यासत्त्वे चेत्यत्रासत्त्वपदेन किं तुच्छत्वं विवक्षितमुत सद्विलक्षणत्वम् ? / आद्यमनङ्गीकारपराहतमित्याह--अनुवाद्यस्येति / द्वितीये तत्संसर्गस्य पारमार्थिकस्यासंभवेऽपि तत्समानस्वभावस्य संभवात्तस्यैवाद्वैतानुकूलस्य द्वैतव्यवहारसमर्थस्य तद्वाक्यार्थत्वं युक्तमित्यभिप्रेत्याहयदीति। किं चात्र निषेधायैवानुवादः / निषेधश्च सत्यस्यानुपपन्न इति तस्मिन्मिथ्यात्वमावश्यकमित्याह-अन्यथेति / स्वमतस्य निरवद्यतामुपसंहरति-तस्मादिति / समाने वृक्षे पुरुषो निमग्नो ऽनीशया शोचति मुह्यमानः॥ जुष्टं यदा पश्यत्यन्यमीश मस्य महिमानमिति वीतशोकः // .. इत्युत्तरमन्त्रस्यास्मन्मत एवोक्तार्थोपपादकतया पूर्वमन्त्रेणैकवाक्यत्वं न परमत इत्यभिप्रेत्य तव्यावर्त्याशङ्कामाह--तदनन्तरमिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy