________________ द्वितीयः परिच्छेदः 25 अखेः भेदतात्पर्य प्रयोजनाभाव: कि चानुवादश्रु तेरनुवाद्यभेदसिद्धये तत्र तात्पर्य कल्प्यते किंवा तस्य वेदार्थत्वाय ? नाद्यः / प्रत्यक्षादित एव तत्सिद्धेः / अतत्परादप्रतीत्युपपत्तेश्च / न द्वितीयः / तस्य वेदार्थत्वाभावात् / न ह्यदृष्टार्थं तस्य वेदार्थत्वं कल्पनीयम् / असस्वनिवृत्तेस्तु प्रत्यक्षादिप्रमाणैरेव सिद्धत्वात् / ननु न कल्प्यते तस्य वेदार्थत्वं, किं तु घेदजन्यज्ञानविषयत्वमनुभूयत इति चेन्न / न हि वेदजन्यज्ञानविषयत्वमात्रं वेदार्थत्वम् / रुद्ररोदनादेरपि तत्प्रसङ्गात् / प्रयोजनवद्वेदजन्यज्ञानविषयार्थों वेदार्थ इति चेत् किं प्रयोजनवान्वेदजन्यज्ञानविषयश्च योऽर्थः स वेदार्थः, किं वा प्रयोजनवद्वेदजन्यं यज्ज्ञानं तद्विषय इति ? नाद्यः / वायुक्षेपिष्ठत्वादेरपि प्रयोजनवस्वाद् वेदजन्यज्ञामविषयत्वाच्च। द्वितीये च न भेदो वेदार्थः। भेदज्ञानाधीनप्रयोजनस्य प्रत्यक्षादिभिरेव सिद्धः / तद्विषयशाब्दज्ञानस्य निष्प्रयोजनत्वात् / भेदश्रु तेर्भेदतात्पर्यकत्वकल्पनेऽपि तव न किञ्चित्फलमस्तीति मन्वानो विकल्पयति-किं चेति। __ आद्येऽपि किं तत्प्रमितिसिद्धये, उत प्रतीतिमात्रसिद्धये ? प्रथमं दूषयतिनाद्य इति / द्वितीये तात्पर्याभावेऽपि रुद्ररोदनादिप्रतीतिवत्तत्प्रतीतिः सिद्ध्यतीत्याहअतत्परादिति / प्रथमद्वितीयस्त्वसंभवीत्याह-न द्वितीय इति / प्रमाणाभावप्रयुक्तासत्त्वशङ्कानिवृत्तये हि वेदार्थत्वं कल्पनीयम् / न च प्रत्यसादिनिश्चिते भेदेऽसत्त्वशङ्कास्ती त्याह-न ह्यदृष्टार्थमिति / ___ननु वेदजन्यज्ञानविषयत्वमेव वेदार्थत्वम् / तस्य च भेदेऽनुभूयमानत्वान्न प्रयोजनाभावेनाक्षेपो युक्त इति शङ्कते--नन्विति / तत्र यथाश्रुतमतिप्रसङ्गेन निराकरोति-न, न हीति / अतिप्रसङ्गपरिहाराय विशेषणान्तरं शङ्कते-प्रयोजनेति / प्रयोजनवत्त्वं कि विषयस्य विशेषण मुप्त ज्ञानस्येति विकल्पयति-किमिति / आद्यमर्थवादार्थेऽतिव्याप्त्या दूषयति-नाद्य इति / प्रथोजनवत्त्वादिति / वायोः क्षिप्रमामित्वस्य वृष्ट्यादिद्वाराऽस्मत्प्रयोजनहेतुत्वादित्यर्थः / द्वितीये निष्पादितक्रिये कर्मणोत्यादिन्यायेन वेदजन्यज्ञानस्य प्रयोजनवत्त्वमेव नेत्याह--द्वितोय इति / अनुवादस्यान्यपरत्वाभावे ''य एवं विद्वान् पौर्णमासी ययते" इत्यादिवाक्यमपि त्रिकविधायकं स्यादित्याह-अनुवादस्येति /