________________ तृतीयः परिच्छेदः 435 मिति चेत। तहि उमयाविरुद्धं धमिसमसत्वमेव धर्मस्य तद्विरुद्धधर्मराहित्यप्रयोजकम् / अत एव मिथ्यात्वस्य कल्पितत्वे व्यावहारिकत्वप्रातीतिकत्वयोः अन्यतरत्वनियमात् प्रपञ्चः सत्य इति निरस्तम् / धर्मिसमसत्ताकस्य कल्पितस्य व्यावहारिकत्वे प्रपञ्चस्यापि तथात्वनियमात् / स्वप्रकाशत्वं स्वरूपमेव / अथवा यो यस्य स्वाभाविको धर्मः स तत्र स्वाभावविरोधी, यथा घटस्य घटत्वं मिथ्यात्वं च प्रपञ्चस्य स्वाभाविकमिति न तत्र सत्यत्वम् / न च कल्पितस्य स्वाभाविकत्वं नास्तीति वाच्यम् कल्पितऽत्वेपि घटत्वादेः स्वाभाविकत्वात् / यत् यद्विषयकसाक्षात्कारनिवृत्त्ययोग्यं तत् तस्य स्वाभाविकमिति कल्पितमपि घटत्वादिमिथ्यात्वादि च स्वाभाविकमेव / गगननीलिमापि च तत्साक्षात्कारनिवृत्तियोग्यमेव / तदाकारवृत्त्यभावात् प्रबलप्रतिबन्धाद्वा न निवर्तते / न चैतद्वयवस्थायां प्रमाणाभावः, घटत्वादिव्यवस्थितव्यवहारस्यैव घटत्वादेः कल्पितत्वमपि मतद्वयासम्मतमिति चोदयति-कल्पितत्वमिति / तथापि धर्मिसमसत्ताकत्वस्य मतद्वयसंमतत्वात् तदेव प्रयोजकं उभयमतसाधारणमित्याह-तीति / यदप्युक्तं मिथ्यात्वस्य व्यावहारिकादिरूपत्वेन प्रामाणिकप्रपञ्चस्य सत्यत्वापात इति / तदयुक्तं। प्रत्यक्षादिप्रमाणस्य अन्यथोपपत्तरुक्तत्वान, वक्ष्यमाणत्वाच्च / साध्यमानधर्मिसमसत्ताकमिथ्यात्वस्य प्रपञ्चसत्यत्वेऽनुपपत्तेः उभयोरपि व्यावहारिकत्वमावश्यकमित्यभिप्रेत्योपसंहरति-अत एवेति / नन्वेवमात्मनि स्वप्रकाशत्वादेः धर्मिसमसत्ताऽभावात् तस्यास्वप्रकाशत्वादिराहित्यं न सिद्धयदिति तत्राह-स्वप्रकाशत्वं चेति / अवेद्यस्वरूपविशेषपरिज्ञानादेव वेद्यायावृत्तिसिद्धिः। स्वरूपविशेषश्च धर्म विनाऽपि घटत्वादाविव निरूपित एव / आत्मा स्वप्रकाश इति विशिष्टव्यवहारस्तु घट एव कल्पित घटत्वेन घट इति व्यवहारवत् स्वप्रकाश एव कल्पितधर्मनिमित्त उपपद्यते। एवं ज्ञानानन्दादिव्यवहारोऽपीति भावः / धर्माणां स्वविरोधिव्यावर्तकत्वे प्रयोजकान्तरमाह-अथ वेति / धर्माणां कल्पितत्वमते रूप्यादिवत् स्वाभाविकत्वमेवानुपपन्नमित्याशक्य कल्पितत्वाविरुद्धं स्वाभाविकत्वमाह-यद्यद्विषयेति / रूप्यादेः शुक्त्यादिसाक्षात्कारनिवर्त्यत्वात् न तत् तस्य स्वाभाविकं घटत्वादिकं तु कल्पितत्वेऽवि न घटाद्याश्रयः ज्ञाननिवर्त्यमिति तस्य स्वाभाविकत्वमेवेत्यर्थः। तहि गगननीलिमचन्द्रप्रादेशिकत्वादेः स्वाश्रयसाक्षात्कारानिवर्त्यत्वात् स्वाभाविकत्वं स्यादित्याशङ्क्याह-गगनति / तदा कारवृत्त्यभावादिति / गगनादिगोचरवृत्त्यभावादित्यर्थः / प्रतिबन्धाद्वेति / दूरस्थतादिदोषादित्यर्थः / __ स्वाश्रयज्ञानानिवत्य॑स्य स्वाभाविकत्वे मानाभावात् परिभाषामात्रमेतदित्याशक्य तद्विशिष्ट एव लौकिकवैदिकव्यवहारदृष्टेः मैवमित्याह-न चैतदिति / एवं