________________ 434 सटीकाद्वैतदीपिकाया दावसत्वं स्वकालादावसत्वसाधने प्रमाणविरोधप्रसङ्गन स्वकालादौ सत्वेन कालान्तरेऽपि सत्वसाधनप्रसङ्गात् / न तृतीयः तद्भिन्नत्वं तस्य च तात्विकस्य प्रपञ्चेऽप्यभावात् कल्पितस्यात्मन्यपि भावात् / सत्वं च त्वदभिमतं मिथ्यात्वाभावो वाऽसद्विलक्षणत्वे सत्यनारोपितत्वं वा अस्तित्वप्रकारकप्रमा प्रति कदाचिद्विषयत्वं वा कालसंबन्धित्वं वा अस्मदभिमतासत्वाभावो वा भविष्यति असद्विलक्षणत्वादिना सत्प्रतिपक्षत्वं सन् घट इत्याद्यध्यक्षवाधिताश्च हेतव इति / मिथ्यात्वस्य व्यावहारिकत्वम् उच्यते / वियदादिसमानस्वभावं मित्यात्वं साध्यम् तच्च धर्मिणः सत्यत्वविरुद्धम् / न च कल्पितं सप्रपञ्चत्वं ब्रह्मणो यथा निष्प्रपञ्चत्वविरोधि न भवति एवं मिथ्यात्वमपि न सत्यत्वविरोधीति वाच्यम। तस्य मिसमसत्ताकत्वाभावात मिथ्यात्वास्य च तथात्वात् अन्यथा धर्मिसमसत्वमिथ्यात्वस्यैवानुपपत्तेः। अत एव घटादेर्घटत्वाद्यघटत्वादिविरोधि / घटत्वादिकं सत्यमिति चेत् न, मम तदसिद्धः कल्पितत्वमपि ममासिद्धि न च स्वकाले सत्वासिद्धिस्तदा प्रमाणविरोधादसत्वाभावे सत्त्वस्यावश्यकत्वादित्याह-स्वका दाविति / वस्तुतः परिच्छिन्नमिति कल्पं निराकरोति---न तृतीय इति / प्रपञ्चे सत्वस्यानिरूपणात् मिथ्यात्वमेव परिशिष्यज्ञ इत्याशंक्य हेत्वसिद्धिमाह - सत्वं चेति / अस्मदभिमतेति / सर्वदेशीयसर्वकालीनात्यन्ताभावप्रतियोगित्वरूपासत्वाभाव इत्यर्थः / उक्तदोषाणामाभासत्वं प्रतिजानीते-उच्यत इति / तत्र यदुक्तं मिथ्यात्वं सत्यं मिथ्या वेत्यादि तत्राह-वियदादीति / तावता कथं वियदादौ सत्वाभावसिद्धिरित्यत आह-तच्चेति / धर्माणां हि धर्मिसमसत्ताकत्वमेव धर्मिणि स्वविरुद्धधर्माभावे प्रयोजकं तथैव घटत्वादौ दर्शनात् / न तु सत्यत्वमपि तत्र निदर्शनाभावादिति भावः। प्रपञ्चे मिथ्यात्वस्य कल्पितत्वे तस्य ब्रह्मणि सप्रपञ्चत्ववत्स्वाश्रये न स्वाभावविरोधितेत्याशंक्य दृष्टान्तवैषम्येण परिहरति-न च कल्लितमित्यादिना / धर्मिसमसत्ताकमिथ्यात्वस्य धर्मिपारमार्थिकत्वाविरोधित्वे वाधकमाह-अन्यथेति / धर्मिणः पारमार्थिकत्वे तत्समसत्ताकमिथ्यात्वस्यापि पारमार्थिकत्वं स्यात्तच्च विरुद्धमिति तयोस्तुल्यसत्ताकत्वमुभयोरप्यनिर्वचनीयत्वं विनाऽनुपपन्नमिति भावः धर्मिसमसत्ताकत्वमेव धर्मिणि तद्विरुद्धाभाव. प्रयोजकांमत्यन्यत्राप्युपपादयति-अत एवेति / घटत्वादेः सत्यत्वस्यैव लाघवात् अघटत्वादिविरोधितेति शङ्कते-घटत्वादीति / घटत्वादिसत्यत्वस्य मतद्वयासम्मतत्वात् न लाघवावतार इत्यभिप्रेत्याह-न ममेति / .