________________ 432 सटीकाद्वतदीपिकायाम् धर्मिसमसत्वस्य हेतोवत्तौ व्यभिचारः। अन्यथाऽतिप्रसङ्गात् दश्यत्वं च व्यावहारिकं न परमार्थब्रह्मसमसत्ताकमिति वाच्यम् / व्यावहारिकादिविभागस्य अद्याप्यसिद्धः। किं चैवं पक्षे धर्मिसमसत्वसाध्यहेत्वभावे वाधोऽसिद्धिश्चेति स्वप्रकाशत्वानुमानमपि न स्यात / वृत्तिविषयत्वस्य दृष्टान्तेऽभावाञ्च / नापि द्वितीयः फलं हि मद्रीत्या व्यवहारः भवद्रीत्या ज्ञातता वा त्वद्रीत्या वृत्यभिव्यक्तविषयाधिष्ठानचैतन्यं वा ? नाद्यः आदानादेर्गगनादावभावात् अभिलापस्य चात्मनि भावात् / न द्वितीयः / तस्य मम घटादौ अतीतादौ चाभावात् / न तृतीयः। अतीतादावसिद्धेः अविद्यादौ तदभावाच्च / नापि साधारणमिति तृतीयः / उक्तदोषात् / ____न चतुर्थः आत्मनोऽपि स्वप्रकाशत्वादिविशिष्टव्यवहारे तदपेक्षानियमात् स्वातिरिक्तसंविदपेक्षा नास्तीति चेत् न / वृत्त्यन्यसंविदपेक्षायास्तव नित्यातीन्द्रिये मम घटावावप्यभावात् / एतेन व्यवहारे स्वावच्छिन्नसंविदपेक्षत्वं दृश्यत्वमिति निरस्तम् / नाप्यस्वप्रकाशत्वम् किञ्च हेतोः विपक्षे धर्मिसमसत्ताकत्वस्य व्यभिचारप्रतोजकत्वेऽसिद्धिवाधयोः कल्पितहेतुसाध्ययोस्तव मते संभवात्तत्र तदनुमानेऽसिद्धयाद्यभावप्रसंगात् / तथा च ब्रह्मण्यनुभूतित्वादिहेतोः स्वप्रकाशत्वसाध्यस्य च धर्मिसमसत्ताकत्वाभावादसिद्धिबाधौ स्यातामित्याह-किं चैवमिति / शुक्तिरजते वृत्तिगोचरत्वानभ्युपगमात् साधनवैकल्यं चेत्याह-वृत्तीति / व्यवहारः फलमिति पक्षे. किमुपादानादिर्व्यवहारपदार्थः अभिलापो वा ? आद्ये भागासिद्धिः / द्वितीये व्यभिचार इत्यभिप्रेत्याह-आदानादेरिति / मम घटादाविति / तथा च मन्मते स्वरूपासिद्धिः भवन्मते तु भागासिद्धिरिति भावः / अविद्यादाविति / अविद्यान्त: करणप्रत्यक्षतद्धर्माणां केवलसाक्षिभास्यतया वृत्यभिव्यक्तचिद्भास्यत्वाभावादित्यर्थः / उक्तदोषादिति / ब्रह्मणि व्यभिचारादिदोषप्रसंगादित्यर्थः / तदपेशानियमादिति / स्वातिरिक्तवृत्तिरूपसंविदपेक्षत्वेन तत्र व्यभिचारादित्यर्थः / वृत्तेरसंवित्त्वात्तदतिरिक्तसंविदपेक्षत्वमेव हेतुस्ततश्च नोक्तदोष इति शंकतेस्वातिरिक्तति / भागासिद्धयन्यतरासिद्धिभ्यां दूषयति-न वृत्त्यन्येति / अतीन्द्रियादिव्यवहारे वृत्त्यतिरिक्तसंविदपेक्षाभावादेवान्यदप्ययुक्तमित्याह-एतेनेति / एवं दृश्यत्वहेतुं निराकृत्यान्यानपि सिद्धान्त्यभिमतानस्वप्रकाशजडपारछिन्नत्वहेतून् क्रमेण निराकरोति