________________ 430 सटीकाद्वैतदीपिकायाम् अस्तु संबन्धिद्वयमात्रमिति चेत् तहि घटज्ञाने विश्वमेव प्रकाशेत अवि. शेषात् / न च प्रतीयमानघटस्वरूपमेव संबन्धः / प्रतीयमानत्वस्यैवानिरूपणात् / न च घटस्वरूपंसंबन्धः घटज्ञाने घटस्याविषयत्वप्रसङ्गात् / न च घटज्ञाने घटस्वरूपं संबन्धः घटज्ञानत्वस्यैव संबन्धं विना दुनिरूपत्वात् / तस्मानाप्रयोजको हेतुः / एवं जडत्वादिहेतवोऽपि द्रष्टव्याः। मच दोषजन्यज्ञानविषयत्वमुपाधिः। दृष्टान्ते तदभावस्योक्तत्वात् / १क्षे तत्सत्वाच्च / नापि बाधितत्वमुपाधिः, पक्षेपि तत्सत्वात् / अत एव न भ्रान्तिविषयत्वमपि / नाप्यर्थक्रियाऽयोग्यत्वम्, अप्रयोजकतया साध्याव्यापकत्वात् / एवमन्येऽप्युपाधयो निराकार्याः / न च प्रपंचमिथ्यात्वे तद्विषयप्रमाणानामप्रामाण्यापत्ति धिका / यावबाधमर्थक्रियासमर्थवस्तुविषयतया व्यावहारिकप्रामाण्यानपायात्। तत्वावेदकप्रामाज्यस्य ब्रह्मप्रमाणातिरिक्तेष्वभावात् / घटादिविषयप्रमाणं तत्त्वावेदकं न भवति जडविषयत्वात् संमतवत् / घटादीनां तत्त्वं विनानुपपत्त्यभावात् निषेधश्रुतिमुख्यार्थत्वाय तस्यैव कल्प्यत्वात् / सिद्धिरिति परस्पराश्रय इत्यर्थः / अभेदपक्षं शंकते-अस्त्विति / अत्रापि किं घटादिस्वरूपमात्रं संबन्धः उत प्रतीयमानस्वरूपं घटस्वरूपमेव वा ? तद्ज्ञाने तत्स्वरूपं वा ? न सर्वथापीत्याह-तहींत्यादिना / घटज्ञानत्वस्यैवेति घटस्य ज्ञानं घटज्ञानमिति षष्ठ्यर्थसंबन्धाभावे तद्ज्ञानत्वायोगादित्यर्थः / विपक्षे वाधकतर्कनिरूपणफलमाह-तस्मादिति / उक्तसाध्य एवाचेतनत्वपरिच्छन्नत्वसविशेषत्वादिहेतवः प्रयोक्त व्या इत्याह-एवमिति / अत्र संभावितोपाधि निराकरोति-न च दोषेत्यादिना। तदभावस्येति / रजतज्ञानस्य साक्षिमात्रता दोषाजन्यत्वस्येत्यर्थः / प्रपञ्चस्याप्यविद्यादोषजन्यत्वेन तत्रोपाधः सत्वात् न तस्य साध्यपरिहारहेतुतेत्यभिप्रेत्याह-पश इति / अप्रयोजकतयेति / मिथ्यात्वेऽविद्यातिरिक्तदोषाजन्यत्व गज्जन्यत्वाभ्यामेवार्थक्रियातदभावोपपत्तेरर्थक्रियाऽयोग्य - त्वं न मिथ्यात्वव्यापकमित्यर्थः / अविद्यातिरिक्तदोषजन्८ त्वावस्थाज्ञानकार्यत्ववाधकज्ञाननिवर्त्यत्वाद्यपाधयोऽप्ययोजकत्वान्निरसनीया इत्याह-एवमिति / उत्तरग्रन्थः स्पष्टार्थः / प्रपञ्चस्य मिथ्यात्वमुपश्रत्य तदसहमानोऽर्वाचीनः प्रलपतीत्याह–अत्रेति / व्यभिचारादिति / अद्वैतज्ञानासिद्धेरप्युपलक्षणम् / अनुमानवैय्यादिति / मिथ्यात्वस्यादृश्यतयाऽनुमिति प्रत्यविषयत्वादस्य च तद्विषयत्वायोगादित्यर्थः। सिद्धसाधनमिति / प्रपञ्चरय सत्यत्वेऽप्यसत्यमिथ्यात्वमविरुद्धमित्यर्थः / प्रपञ्चमिथ्यात्वस्यासत्यत्वेऽपि न