SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 429 नाप्यर्थक्रियाकारित्वं सत्वं तवभावकालेऽसत्वप्रसंगात् / परमाणुपरिमाणादेरसत्वप्रसङ्गाच्च / अनिर्वचनीयेनार्थक्रियोपपत्तेश्च / दृग-यसंबन्धानुपपत्त्या मिथ्यात्वम् ____एवं दृश्यत्वानुपपत्तिश्च / ज्ञानज्ञेययोः संयोगादिसंबन्धाभावात् / स्वरूपसंबन्धोऽस्तीति चेत् / न तावत् तस्य स्वरूपाभेदः, निरूपयितुमशक्यत्वात् / _ यत्तु संबन्धान्तरमन्तरा विशिष्टप्रतीतिविषयत्वमिति / तन्न / तस्य प्रतीत्यन्तरविषयत्वे तस्यापि प्रतीत्यन्तरापेक्षायामेकमपि न सिद्धयेत् / स्वस्य स्वविषयत्वं चाद्यापि दुनिरूपं स्वस्य स्वविषयत्वानुपपत्तेश्च / स्वरूपसंबन्धनिरूपणात् पूर्व विशिष्ट प्रत्ययत्वासिद्धश्च / रित्यभिप्रेत्याह-एतस्मिन्निति / प्रपञ्चस्य रजततुल्यत्वे कथं सत्वेनानुभव इत्याशंक्य सोऽपि तद्वदेवाधिष्ठानसत्तासंसर्गादुपपद्यत इत्याह-सबुझेर पीति / पञ्चमं निराकरोतिनाप्यर्थक्रियेति / तदभावकाल इति / न च तदापि तद्योग्यताऽस्तीति वाच्यम् तथा सति रजतादेरपि सत्वापातात् / किञ्च पारिमाण्डल्यपरममहत्वादेः परैरप्यूर्थक्रियायोग्यताया अप्यनभ्युपगमादसत्वापात इत्याह-परमाण्विति। अनिर्वचनीयेनाप्यर्थकियोपपादनान्नैतत्सत्वमित्याह-अनिर्वचनीयेति / हेच्छित्तिरपि विपक्षे बाधिकेत्याह-एवमिति / ज्ञानेन घटादेः संबन्धविशेषाभावे कदाचित्कस्यचित् ज्ञेयत्वायोगात् संबन्धविशेषो वाच्यः। न च ज्ञाने विषयाणामध्यासं विना विशेषसंबन्धसंभवः / तत्र पराभिमत. संबन्धानामसंभवादिति भावः। परमते किं ज्ञानज्ञययोः संयोगः संबन्ध उत समवायः स्वरूपसंबन्धो वा ? नाद्यः ज्ञानप्य गुणत्वात् / न द्वितीयः आत्मगुणस्य ज्ञानस्य घटादौ समवायायोगादित्याह-ज्ञानज्ञेययोरित / तृतीयं शंकते-स्वरूपेति / स्वरूपसंबन्धः किं भिन्न अभिन्नो वा ? नाद्यस्तावद्धटत इत्याह--न तावदिति / संबन्धिभिन्नः स कि जन्य उताजन्यः ? आधे गुणादिष्वसंमवः तेषां जन्यधम नाश्रयत्वान्न द्वितीयः कादाचित्कसंबन्धिद्वयाभावकाले आश्रयाभावेन तत्परतंत्रसंबन्धसत्त्वायोगात्तस्यापि ज्ञेयत्वसिद्धये संबन्धान्तरमित्यनवस्थापाताच्चेति भावः / परोक्तं तल्लक्षणमपि दूषयितुमनुवदति-य त्त्विति / विशिष्टप्रत्ययः कि तत्संबन्धगोचरज्ञानादतिरिक्त उतानतिरिक्तः? आद्ये त्वस्य ज्ञेयेन संबन्धार्थं विशिष्टप्रत्ययान्तरमावश्यक मित्यनवस्था मूलक्षयकरी स्यादित्याह–तस्येति / ज्ञाने स्वविषयत्वनिराकरणान्न द्वितीयोऽपीत्याह-स्वस्येति / विशिष्टप्रत्ययविषयत्वमेव संबन्धः। अतो नोक्तानवस्थेत्याशंक्याह---स्वरूपेति / ज्ञानज्ञेययोः संबंधे सिद्धे तद्विषयकविशिष्टप्रत्ययसिद्धिः तत्सिद्धौ च तद्योग्यतारूपसंबन्ध
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy