________________ तृतीयः परिच्छेदः 427 निरधिकरणात्मादौ सत्वं न स्यात् / प्रमेयत्वं घटादिधर्मः तच्च प्रमात्वमिति मते तत्राभावाच्च / तदधिकरणे घटे तदत्यन्ताभावस्य सत्वात् / प्रमात्वं घटे नास्तीत्यवाधितानुभवात् / न च परंपरासंबन्धविशिष्ट प्रमात्वाभावस्तत्र नास्तीति वाच्यं तथापि त्वदुक्तसत्वाभावात, तवापि घटादेस्तादशात्यन्ताभावप्रतियोगित्वस्यावश्यकत्वेन तत्सत्वानुपपत्तश्च / सर्वस्यापि परमते काले स्वाभावसमानाधिकरणत्वेनासंभवाच्च / ___ न च कालादन्यत्र स्वसमानाधिकरणत्व विवक्षितं कालपरिभाणादेस्तदभावेनासत्वप्रसङ्गात् / नापि प्रामाणिकत्वं सत्वं; यदि प्रमात्वं सदर्थकज्ञानत्वं, तृतीय नुत्यापति-अति / प्रतियोग्य प्रसिद्धया तदभावरूपसत्वासिद्धिमा. शंक्याह-घटका नेति / पटादौ प्रसिद्ध मति / ततश्च घटे तदभावः सत्त्वं, एवं पटाधिकरणनिष्ठाभावप्रतियोगित्वं घटे प्रसिद्धं तदभावश्च पटेः सत्वमिति सर्वत्र सत्त्वसिद्धिरिति भावः। परमते विभुद्रव्याणां निरधिकरणत्वात् प्रतियोग्यप्रसिद्धः उक्तसत्वासिद्धिरिति दूषयति-तहीति / प्रमात्वमेव सर्वत्र स्वरूपसंबन्धेन वर्तमानं प्रमेयत्वमिति न सर्वत्र सत्त्वसिद्धिरित्याह-प्रमेयत्वमिति / प्रमात्वं हि स्वाश्रयप्रमासंबन्धद्वारा घटादौ वर्तते / तत्संबन्धविशिष्टतया न तत्र तदभावः / किन्तु समवायितयवेत्याशंक्य तथापि स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वान्न तदभावरूपसत्वमित्याह-न च परंपरेत्यादिना / ___ न च यद्यत्र येन संबन्धेन वर्तते तत्र तसंबन्धविशिष्टप्रतियोगिकाभावो विवक्षित इति नोक्तदोष इति वाच्यम् / प्रमात्वस्य स्वाश्रयातिरिक्त सबन्धस्य घटादावभावात् तदभावस्यापि स्वरूपेणैव घटादावनुभवात्तत्र परंपरासंबन्धेनापि प्रमात्वाभाव आवश्यक इति नोक्तदोषनिस्तार इति भावः / किञ्च घटवत्यपि भूतले तत्काले तदभावाभावे तदपसरणानन्तरं तदभावप्रमाऽयोगात् तत्कालेऽपि तत्र तदभाव आवश्यकः / ततश्च घटादेरुक्तलक्षणकसत्वायोगादसत्वापात इत्याह-तवापीति / किञ्च परमते सर्वभावानां स्वसमानकाले स्वाथयकालनिष्ठाभावप्रतियोगित्वात् सत्वायोग इत्याह--सर्यस्यापीति / लक्षणे स्वसमानाधिकरणपदेन कालातिरित्ताधिकरणस्य विवक्षितत्वान्नोक्तदोष इत्याशंक्य तथात्वे कालमात्रनिष्ठधर्मस्य कालातिरिक्त करणाभावेन तत्र लक्षणाव्याप्तिरित्याह-न च कालादिति / चतुर्थमपवदति-नापीति / किं प्रामाणिकत्वं नाम प्रमाविषयत्वं तद्योग्यत्वं वोभयथापि कि प्रमात्वं सदर्थज्ञानत्वं तद्वति तद्विशिष्टज्ञानत्वं वाऽवाधितार्थज्ञानत्वं वा दुष्टका.