________________ 426 सटीकाद्वैतदीपिकायाम् सत्वमित्येतच्छतशो निरस्तम् अबाध्यत्वमिति चेत् किं तद्वाध्यत्वं यदभावः सत्वं, भ्रान्तिविषयत्वं वा वाधकप्रमाविषयत्वं वा प्रमीयमाणात्यन्ताभावप्रतियोगित्वं वा स्वधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वं वा स्वोपादानवृत्त्यन्ताभावतियोगित्वं वा स्वविशिष्टप्रमाकाले स्वविशेष्यवृत्त्यत्यन्ताभावप्रतियोगित्वं वा स्वविशिष्टप्रतीतिकाले स्वसमानदेशात्यन्ताभावप्रतियोगित्वं वा असत्वं वा ? नाद्यद्वितीयौ। शुक्त्यादेरन्यथाख्यातौ रजतादेः स्वासत्वप्रसंगात् / न तृतीयः। जडमात्रे तत्सत्वात् / न चतुर्थः घटादेरपि स्वाधिकरणीभूतभूतलाद्यधि. करणनिष्ठात्यन्ताभावप्रतियोगित्वात् / न पञ्चमः परमते तदप्रसिद्धः / संयोगादेस्तत्सत्वाच्च / अत एव न षष्ठः / सप्तमेऽपि तस्य परमतेऽसंभवः / असत्वं हि यदि त्रैकालिकसर्वदेशीयात्यन्ताभावप्रतियोगित्वं तदाऽनिर्वचनीयातिरिक्तं तादृशं किञ्चिन्नास्तीत्युक्तम् / तस्मान्न वाध्यत्वाभावः सत्त्वम् / प्रकारान्तरेण सत्त्वनिरुक्तिः अथ स्वसमानाधिकरणस्वसमानकालीनात्यन्ताभावाप्रतियोगित्वं सत्वं घटकालीनघटाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वं च पटादौ प्रसिद्धमिति चेत् तहि कालीनात्यन्ताभावाप्रतियोगित्वं वा प्रामाणिकत्वं वा अर्थक्रियाकारित्वं वेत्यभिप्रेत्याचं निराकरोति-सत्ताजातिरिति / निरस्तमिति / सामान्यादेरसत्त्वप्रसंगादित्यर्थः / द्वितीयमुत्थापयति-अबाध्यत्वमिति / किमवाध्यत्वमखंडधर्मः उत वाध्यत्वाभावः ? नाद्यः पदार्थमात्रवृत्त्यखण्डध योगात्तत्र मानाभावाच्चेत्यभिप्रेत्य द्वितीयं प्रत्याह-किं तदिति / किं शब्दसूचिताविकल्पानेव दर्शयति-भ्रांतीत्यादिना। शक्स्य देरिति / तस्य इदं रजत'मित्यादिम्रमे नेदं रजतमित्यादिवाधज्ञाने चेदमाकारेण विषयत्वादन्यथाख्यातिमते देशान्तरादौ सतो रजतादेस्तदुभयविषयत्वाभ्युपगमाद्वाध्यत्वेन सत्तायोगादसत्त्वापात इत्यर्थः / जडमात्र इति / प्रमेयत्वादेरपि प्रमात्वादिरूपेण प्रमीयमाणात्यन्ताभावप्रतियोगित्वादिति भावः / तदप्रसिद्धेरिति / परैस्तत्प्रागभावाश्रये तदुपादाते तदत्यन्ताभावानभ्युपगमात् क्वापि तत्प्रति योगित्वरूपबाध्यत्वासिद्धेस्तदभावात् सत्वासिद्धिरिति भावः / संयोगादावुत्ताभावप्रतियोगित्वमाशंक्य तहि तत्र तदभावरूपसत्वायोगादसत्यापात इत्यभिप्रेत्याह-संयोगादेरिति / असंभवादिति / संयोगादेरपि स्वविशिष्टतया प्रमीयमाणप्रदेशे तत्कालेऽत्यन्ता. भावाभावादितरथा तस्यासत्वापातादिति भावः। नास्तीत्युक्तमिति / असत्वस्य सत्वे तद्धर्मिणोऽपि सत्त्वापातेनोक्तलक्षणासत्त्वायोगात्तस्यासत्त्वे च तदभावरूपसत्वासिद्धिरित्यादियुक्तिभिरसत्वं नाम न किंचिदित्यनिर्वचनीयवाद एवोक्तमित्यर्थः। द्वितीयकल्पनिरासमुपसंहरति-तस्मादिति /