SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 425 दोषविशेषाजन्यत्वं च परमते सत्वमिवौत्सगिकतर्कोपस्थितं सर्वप्रमाणविषयः तच्च क्वचिद्बाध्यते क्वचिन्नेति विशेषः। केचित्तु अंकुरावस्थदण्डादेः कदाचिदपि घटाद्यजनकत्वेऽपि दण्डत्वादिना तज्जनकत्वयोग्यतावच्छुक्तिरजतादेरपि तत्वेनैव योग्यतेत्याहुः / रजताभासव्यवहारस्तु ब्राह्मण एव तवृत्तिन्यूनतया ब्राह्मणाभासप्रयोगवदर्थक्रियाभावादेवोपपद्यते। तस्माच्छुक्तिरजतं मिथ्येति सिद्धम् / प्रपञ्चमिथ्यात्वे अनुमानानि प्रपंचेऽपि प्रयुज्यते अज्ञातसत्ताकमविद्यातिरिक्तदोषाजन्यं जन्यं वियदाद्यक वा मिथ्या दृश्यत्वात् शुक्तिरूप्यवत् प्रतिज्ञाविषयातिरिक्तस्य जडस्य पक्षसमत्वान्न व्यभिचारः। ___ न चाप्रयोजक्ता, सद्भेदे गौरवात् सत एकत्वेऽपि निखिलव्यवहारोपपत्तेः / संविदभेदं विना प्रत्यक्षत्वायोगाच्च / किं च जगतः सत्वानुपपत्तिरपि विपक्षे वाधिका। तथाहि सत्ता जातिः यत्संशयविपर्ययो यत्र प्रतिबंधको तन्निश्चयस्वद्धेतुरिति न्यायादोषाजन्यत्वनिश्चयः प्रवृत्त्युपयागीत्यर्थः। दोषाजन्वत्वस्यार्थक्रियागम्यत्वात् प्रथमं कथं निर्णय इत्यत आह-दोषविशेषेति / उत्सर्गापवादयोः सर्वैरप्यभ्युपगमादुत्सर्गतः सर्वत्र प्राप्तिः क्वचिदपवादे सत्यन्यथात्वमित्यर्थः। दोषविशेषाजन्यत्वाज्ञानेऽपि रजतत्वादिनैव शुक्तिरजतादेशि ककणादियोग्यत्वात् तद्ग्रहादेव प्रवृत्तिः फलोपधानाभावस्तु कोमलदण्डादिवदुपपद्यत इति मतान्तरमाह-केचित्त्विति / शुक्तिरजतादेरपि रजतांन्तरवद्व्यवहारयोग्यत्वे कथं तत्र तदाभासत्वप्रथेत्याशंक्य स्वोचितकार्यानिष्पादकत्वेनैव तदुपपत्तिरिति सदृष्टान्तमाहरजताभासेति | लक्षणादिभिरुपपादितं रजतमिथ्यात्वं निगमयति-तस्मादिति / यदर्थ रजतमिथ्यात्वं साधितं तन्निदिशति-प्रपञ्चेऽपीति / अज्ञातसत्ताकं जन्यमित्येकः पक्षः। अविद्यातिरिक्तदोषाजन्यं जन्यमित्यपरः। वियदाद्यैकैकमित्यर्थः / पक्षयोब्रह्मणि वाधवारणाय जन्यपदं अज्ञानादेः पक्षे अनन्तर्भावात् तत्र मिथ्यात्वासिद्धौ हेतुळभिवारीत्याशंक्याह-प्रतिज्ञेति / विपक्षे वाधकतर्काभावादप्रयोजकत्वमित्याशंक्य हेत्वसिद्धया दूषयति-न चाप्रयोजकतेति / सविदभेद विनति / इन्द्रियजन्यत्वप्रयुक्तार्थापरोक्ष्यनिराकरणादर्थस्य स्वप्रकाशचित्तादात्म्यमेषितव्यम् जडाजडयोर्वस्तुतस्तदयोगात् स्वप्रकाशचित्तादात्म्याध्यासादेव जडापरोक्ष्यमिति भावः / अधिष्ठानातिरिक्तजडसत्ताया दुनिरूपणादाप तन्मिथ्यात्वमित्याह-जगत इति / किं पराभिमतसत्ताजातिर्जडस्य सत्वमवाध्यत्वं वा स्वसमानाधिकरणस्चसमान
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy