________________ तृतीयः परिच्छेदः 421 अपि काचादिवदधिष्ठानविपरीतकार्यजनकतया दोषत्वात् / ननु प्रपञ्चेऽष्टमेव दोषः, तस्य क्वचिद्दोषत्वेन जनकत्वस्य दृष्टत्वादिति चेत् / न / लाघवेन प्रपंचस्य दोषजन्यत्वानुमितेरेकविषयत्वे संभवति तत्त्यागात् / __अथोपादानस्य दोषत्वमदष्टं तर्हि निमितस्य दण्डादेरपि म तदृष्टमिति काचादिकमपि न दोषः / कार्यवलात तत्कल्पनं चेत् प्रकृतेऽपि तुल्यम्। एवमपि काचादेय॑भिचारस्य कः परिहारः ज्ञाने यः परिहारः स एव / भ्रान्तिमात्रे प्रत्यक्षभ्रभमात्रे चाक्षुभ्रममात्रे वा काचादिः कारणम् / भ्रमविषयोत्पती कारणप्रश्न: ननु घटादौ क्लुप्तकारणदंडादिकं विना कथं तस्य भ्रमविषयस्योत्पत्तिः' तथात्वे प्रत्यक्षं चेन्द्रियसंयोगं विना किमिति न जायेतेति चेत् / न। जन्यप्रत्यक्षमात्रे इन्द्रियसंप्रयोगजन्यत्वस्य क्लप्तत्वात् / न च घटादौ तथा। चेष्टादिकं विनापि स्वप्ने तद्दर्शनात् / तत्र च सृष्टिश्रुतेः साऽवश्यिकी शुक्त्यादिदेशीयरजतादिकं विनाऽपरोक्षत्वानुपपत्तेश्च / अतो व्यावहा तस्यैव प्रपञ्चेऽपि दोषत्वसंभवेनाविद्याया न दोषत्वमिति तटस्थः शंकते-नन् प्रपञ्च इति / रजतादिदृष्टान्तेन प्रपञ्चे दोषजन्यत्वविषयानुमितेर्लाघवादेकदोषविषयत्वादनन्तादृष्टानां न दोषतया हेतुतेत्याह-न लाघवेनेति / - अविद्याया दोषत्वे उपादानत्वं न स्यादित्याशंक्य प्रतिबंद्या परिहरति-अथेत्या. दिना / अर्थक्रियायोग्ये प्रपञ्चेऽविद्याया दोषत्वमभ्युपेत्य तदयोग्ये काचादीनां प्रत्येकमननुगमान्न हेतुतेति चोदयति एवमपीति / काचादेतिज्ञानहेतुत्वमतेऽप्यननुगमस्य तुल्यत्वात् तत्राज्ञानव्यक्तिविशेषहेतुत्वमभ्युपेयं तदर्थहेतुत्वेऽपि तुल्यमित्याह-ज्ञान इति / काचादेरेकैकस्य ज्ञानेऽननुगममेव दर्शयति-न हीति / भ्रान्तेरिव तद्विषयस्याप्युत्पत्तिरनुपपन्नेति चोदयति-ननु घट दाविति / दण्डादिकं घटादिविशेष एव हेतुर्न घटादिमात्र इत्याशंक्य तीन्द्रियसंप्रयोगोऽपि प्रत्यक्षज्ञानविशेषहेतुनं जन्यप्रत्यक्षमात्र इत्यन्यथा ख्यातिरेव किं न स्यादित्याह-तथात्व इति / इन्द्रियसंप्रयोगस्य जन्यप्रत्यक्षमात्रेऽनुगतत्वात् तस्य तद्धेतुत्वमावश्यक दंडादेस्तु हस्तादिनिमिते ताम्रादिमये च घटादावननुगमात् तस्य त द्विशेषे हेतुतैवेति परिहरति-न जन्येति / तथापि चेष्टादिरूपपुरुषव्यापारं विना कथं घटाद्यत्पत्तिरित्याशंक्याह-चेष्टादिक मति। स्वप्ने घटादिसृष्टौ वैदिकैर्न विमतिः कार्या तस्या 'अथ रथानि'त्यादिश्रुतिसिद्धत्वादित्याह-तत्र चेति। रजतान्तरकारणाभावात् प्रातीतिकरजतोत्पत्त्यनभ्युपगमेऽन्यस्य रजतस्य संविदभेदासंभवाद् भ्रमस्यापरोक्षत्वानुपपत्तिश्चेत्याह-शुक्त्यादीति / फलितमाह-अत इति /