________________ 420 सटीकाद्वैतदीपिकायाम् वाच्यम्। संप्रयोगस्य रजतोत्पत्तौ परंपरयाप्यनुपयोगे तेन विनापि तदुत्पत्ति- . प्रसंगस्य दुष्परिहरत्वात् / न हि ज्ञानपामग्रीमपेक्ष्यार्थोत्पत्तिः। न च सादृश्यज्ञानार्थमेव तत्.। तच्च न सर्वत्रेति वाच्यं, स्फटिकलौहित्यादिभ्रमस्यापि संप्रयोगेण विनाऽभावात् / अतोऽधिष्ठानज्ञानार्थमेव तदिति भ्रमेऽधिष्ठानसामान्यज्ञानमपि कारणम् / अत एव संस्कारोऽपि रजत एव कारणम् अनुभवाहितसंस्कारस्यापि स्वप्नेऽकाराद्यर्थे च कारणत्वात् / ज्ञानातिरिक्ते ध्वंस इवान्यत्रापि तस्य हेतुत्वे घोषाभावाच्च / क्वचिदट्टष्टमपि दोषः / ननु दोषावि रजतावावपि न कारणम् / सेत विनापि समीचीनरजतादेः सत्वात् / न चारोपितरजते तस्य कारणत्वं तस्याप्यारोपितत्वात् / न च प्रातीतिके कारणं सत्वभेवस्याभावादिति / मैवं / अर्थक्रियायोग्यत्वेन विशेषात् / कार्यमात्रे त्रितयस्य कारणत्वाच्च / प्रपञ्चेऽप्यविद्या दोषः / तदाहुः "विद्यत एवात्राप्यग्रहणाविद्यात्मको दोष" इति / पूर्वभ्रमसंस्काराधिष्ठानज्ञानयोः सत्वाच्च / अविद्याया ग्रहद्वारकरजताद्युत्पत्तावित्याह-न च सादृश्येत्यादिना / भ्रमविषयस्यैव जन्यत्वात् तत्रैव संस्कारोऽपि हेतुरित्याह--अत एवेति / यदुक्तं ज्ञानसंस्कारस्यार्थजनकत्वाभावादिति तत्राह--अनुभवाहितेति / स्वप्नादावागन्तुकज्ञानस्य कारणाभावादनुपयोगाच्चासंभवात् तत्रार्थस्यैवानुभवसंस्कारजन्यत्वं तद्वद्रजतस्यापि तदुपपत्तिरित्यर्थः। परमतेऽपि ज्ञानसंस्कारो ज्ञानस्यैव हेतुरिति नियमाभावादर्थहेतुत्वसंभव इत्याह-ज्ञानातिरिक्तध्वंस इति स्वध्वंस इत्यर्थः / औसातिकसवितृसुष्यादौ दोषाभावात् कथं तदुत्पत्तिरित्यत आह-क्वचिदिति / दोषादिकं रजतादिमात्र कारणमुतारोपितरजतादौ ? किं वा प्रातीतिकसत्तावतीति विकल्पं मनसि निधाय क्रमेण दूषयति -ननु दोषादिरित्यादिना / सत्वभेदस्येति / अधिष्ठानसत्तातिरिक्तसत्वस्य निराकरणादिति भावः। स्वजात्युचितार्थक्रियां प्रत्ययोग्यत्वमेव कार्यतावच्छेदकमिति परिहरति-मैवमिति / वस्तुतस्तु दोषसामान्यज्ञानसंस्कारजन्यत्वे कार्यत्वमेवाच्छेदकं घटादेरपि तज्जन्यत्वादित्याह-कार्यमात्र इति / आगन्तुकग्रहणनिवत्यं त्वग्रहणपदार्थः-पूर्वभ्रमेति / संसारस्यानादित्वात् पूर्वानुभवसंस्कारः सर्वत्र सुलभः / वियदाद्यधिष्ठानचिन्मात्रस्यापि मूलाज्ञानाश्रयविषयतया सर्वदा सर्वानुभवसिद्धत्वादधिष्ठानसामान्यज्ञानमपि सुलभमित्यर्थः। अविद्यायाः सर्वत्रोपादानत्वात् कथं तत्र दोषत्वमित्याशंक्य' प्रसिद्धदोषतुल्यत्त्वात् तत्त्वमित्याह-अविद्याया इति / अधिष्ठानविपरीतेति / एतच्चाधिष्ठानविशेषांशप्रतिभासप्रतिबंधकत्वस्याप्युपलक्षणं, अदृष्टस्य सवितृसुष्यादौ दोषत्वेन क्लुप्तत्वात्