________________ तृतीयः परिच्छेदः 419 एतेन दिगादयोऽपि व्याख्याताः / तितो गुड इति भ्रमोऽपि रसनेन्द्रियगृहीतेऽपि गुडरसे तिक्तरसाभेदारोपविषयः गुडरसस्तिक्त इत्यनुभवात् / अन्यथा पित्तोपहतरसनस्य स्मर्यमाणे तिक्तो रस इति भ्रमः स्यात् / तस्मात् सर्वत्राधिष्ठानस्फुरण एवेन्द्रियोपयोगः ततो दोषो रजताद्यर्थ एव कारणम् / एवमत्यन्तमज्ञाते ज्ञाते च भ्रमाभावादधिष्ठानसामान्यज्ञानमपि तत्र कारणम् / अन्यथाऽधिष्ठानसंप्रयोगाभावेऽपि रजतादिभ्रमप्रसंगात् / न चैवं संप्रयोग एव हेतुः तस्य सर्वभ्रमाव्यापित्वात् / अधिष्ठानसामान्यस्फुरणस्य सर्वत्र सत्त्वात् तत्क्वचिन्नित्यं क्वचिदागन्तुकमित्यन्यदेतत् / न च रजतस्येदंसंवलितग्रहणतया तत्कालीनतदर्थमेव संप्रयोगापेक्षेति कथमधिष्ठानस्यापरोक्षत्वमित्याशंक्य तत्रापि तदुपाधिगोचरवृत्त्यभिव्यक्तसाक्षिभास्यत्वसंभवान्न विरोध इत्यभिप्रेत्याह-एतेनेति / नन्वेवं तिक्तो गुड इति भ्रमे रसनेन्द्रियस्य कुत्रोपयोगः गुडस्याधिष्ठानस्य त्वग्गाह्यत्वादारोप्यतिक्तरसस्यन्द्रियकत्वानभ्युपगमादित्याशंक्य तत्र गुडगत रसस्यैवाधिष्ठानत्वात्तत्सामान्यग्रहे रसनोपयोग इत्यभिप्रेत्याह-तिक्त इति / अत्राप्यधिष्टानापरोक्ष्यस्यानपेक्षत्वे बाधकमाह-अन्यथेति / इन्द्रियस्य भ्रमहेतुत्वनिराकरणमुपसंहरति-तस्मादिति / स्वत्तो भ्रमस्याजन्यत्वादेव दोषादिरपि रूप्योत्पत्तावेव हेतुरित्याह-तत इति / न च चिकीर्षाविना ज्ञानमर्थे न कारणमिति वाच्यम् / कृतिसाध्याऽर्थोत्पत्तावेव तदपेक्षणाच्छुक्तिरूप्यादेश्च कृत्यनपेक्षत्वादिति भावः। अधिष्ठानस्फुरणस्य रजताधुत्पत्तावहेतुत्वे तद्धेतोः संप्रयोगस्यापि तत्रानपेक्ष्यत्वात्तेन विनापि रजताद्युत्पत्त्या तद्विशेषितम्रमः स्यादित्याह-अन्यथेति / संप्रयोगस्यैवार्थोत्पादकत्वात् तेन विना न रजतादिम्रम इत्याशंक्य तस्याहंकाराद्यध्यासेऽसंभवादधिष्ठानस्फुरणमेव सर्वत्र हेतुरित्याह-न चैवमित्यादिना / अहंकाराद्यधिष्ठानस्य संप्रयोगं विना कथं वा स्फुरणमित्याशङ्कय तस्यानावृतस्वभावसाक्षिरूपतया नागत्तुकं तदितरत्र त्वावरणनिवर्तकवृत्तिसापेक्षत्वादागन्तुकमित्याह-क्वचिदिति / ___ शुक्तिसंप्रयोगो न रजतोत्पादकज्ञानार्थः किन्त्विदं रजतमिति रजतस्येदमंशसंभिन्नतया ग्रहणत्वं तत्कालेपेक्षितेदंवृत्त्यर्थ एवेत्याशंक्य संप्रयोग विना रजतोत्पत्ती वाधकस्योक्तत्वात् तस्य तदर्थत्वमावश्यकमित्याह-न च रजतस्येत्यादिना / ननु शुक्त्यादौ सादृश्यज्ञानार्थ एव संप्रयोगः सादृश्यज्ञानं च न सर्वभ्रमोपयोगीति तदर्थ संप्रयोगोऽपि तथा / ततश्चान्यत्र संप्रयोगाधीनाधिष्ठानज्ञानं सदपि न कारणमित्याशंक्यान्यत्रापि संप्रयोगे सत्येव भ्रमदर्शनान्न तस्य सादृश्यग्रह एवोपयोगः किं त्वधिष्ठान