________________ तृतीयः परिच्छेदः 411 व्यावृत्तत्वाच्च / वास्तवत्वे च काचादेविपरीतरजतपरिणामायोगात् / अवास्तवत्वे च तद्वद्रजतमप्यविद्योपादानम्। एतेनेदंत्वाकारेणानुगतं शुक्त्यादि दोषयुक्तं रजतोपादानमस्त्विति नवीनोक्तम् निरस्तम् / दोषेदमंशयोः सत्यत्वे तदयोगात ! स्वप्नभ्रमोपादानसाधारणेदंत्वाभावाच्च / एकाज्ञानोपादानत्वे संभवति तदन्योपादानत्वकल्पनायोगाच्च / प्रतिबिबादिभ्रमेऽप्यज्ञानमस्तीत्युक्तम् / शंखेश्वत्यानुमानं च न तदज्ञानविरोधीति तत्रापि तत्सुलभम् / किं च शंखपीतभ्रमो विशेषादर्शनाजन्यः कादाचित्कभ्रमत्वात् संप्रतिपन्नवत / अन्याथाऽन्यत्रापि भ्रमे विशेषादर्शनं हेतुर्न स्यात् / तच्च विशेषादर्शनं न पराभिम तश्वैत्यव्याप्यशंखत्ववानयमिति ज्ञानाभावः। तदभिमतप्रत्यक्षविशेषदर्शनस्य सत्वात् / नापि ग्राह्यनिश्चयाभावः तदनुमितेः सत्वात् / नापि ग्राह्यप्रत्यक्षाभावः तद्विशेष्यकग्राह्यप्रत्यक्षाभावश्चेत् यस्य यस्मिन् शंखे कदापि न तत्प्रत्यक्षमस्ति संभवति न व्यावृत्तानां काचकामलादीनां उपादानत्वमित्याह-व्यावृत्तत्वादिति / किञ्च काचादिकमपि वास्तवमुतावास्तवं ? आये न अनिर्वचनीयपरिणामित्वमित्याह-वास्तवत्वे चेति / द्वितीये काचादेर्यदुपादानमज्ञानं तस्यैव रजताद्यपादानत्वसंभवान्न काचादेस्तदुचितमित्याह- वास्तवत्वे चेति / अनुगतस्योपादानत्वं स्यादिति चोद्यमप्युक्तविकल्पासहत्वान्निरस्तमित्याह-एतेनेति / किं च स्वप्ने इदमंशस्याप्यध्यस्तत्वान्न तस्य सर्वभ्रमानुगततयोपादानतेत्याहस्वप्नेति / अज्ञानोपादानत्वे कल्पनालाघवं चेत्याह-एकाज्ञानेति / नन्वज्ञानमपि नानुगतं प्रतिबिंबादिभ्रमेषु तत्त्वज्ञाने सति तदयोगादित्याशंक्य तत्राप्यावारकाज्ञानस्य परोक्षज्ञानस्याज्ञानाविरोधित्वस्य वोक्तत्वान्मैवमित्याहप्रतिबिम्बेत्यादिना / किञ्च भावरूपाज्ञानातिरिक्त विशेषादर्शनानिरूपणात् तद्पाज्ञानस्य महेतुत्वमावश्यकमिति वक्तुं सर्वभ्रमस्य विशेषादर्शनजन्यत्वमुपपादयति-किं चेति / पित्तदोषादेव पीतिमभ्रमोपपत्तेर प्रयोजकत्वमित्यत आह-अन्यथेति / अस्तु विशेषादर्शनं पीतिमभ्रमेऽपि हेतुस्ततः किमित्याशंक्य किमत्र श्वैत्यव्याप्यवत्तया प्रत्यक्षनिश्चयाभावो विशेषादर्शनमुत ग्राह्यनिश्चयाभावः श्वैत्यप्रत्यक्षाभावो वा न सर्वथापीत्याह-सच्चेत्यादिना / तदभिमतेति / स्मृत्युपनीतस्य श्वैत्यव्याप्यत्वस्य विशेषणतयेन्द्रियेण भानसंभवादिति भावः।। तृतीये किं शंखविशेष्यकश्वत्यप्रत्यक्षस्याभावो विवक्षित उताहो अन्यविशेष्यकस्य ? आद्ये भ्रमगोचरशंखश्वैत्यप्रत्यक्षं विनैव तस्य निष्प्रतियोगिकतत्प्रत्यक्षाभावायोगादपूर्वभ्रमो न स्यादित्याह-तद्विशेष्यकेत्यादिना / द्वितीयं दूषयति-अन्येति / घटादौ श्वैत्यदर्शने सत्यपि शंखे पीतिमभ्रमदर्शनान्न तदभावस्तद्धेतुरित्यर्थः / अन्यविशेष्यकविशेषदर्शनाभावस्याहेतुत्वे हेत्वन्तरमाह