________________ 410 सटीकाद्वैतदीपिकायाम् भावविलक्षणं भावत्वं घटादेः सोपादानत्वे प्रयोजकम् / तच्च शुक्तिरजतेऽपीति तदपि सोपादानमेव। एवमुपादानत्वेऽपि तदेव भावत्वं प्रयोजकमित्यविद्याप्युपादानमेव / एतेन सद्विलाणं कार्यमेव न भवतीत्यसिद्धिरिति निरस्तं सतः कार्यत्वानुपपत्तेः / प्रपञ्चितं चैवहुधा। यत्तु शुक्तिकारूप्यस्योत्पत्तिविनाशाद्युपगमे शुक्तिकायां रजतमुत्पन्नं नष्टमित्यनुभवप्रसंग इति / तन्न। स्वप्न इव शुक्तिकायां रजतभ्रम उत्पन्न इदानीं विनष्ट इति प्रतीतेरेव विशिष्ट विषयिण्या: रजतविषयत्वात् / रजतभ्रमस्य नित्यसाक्षितया रजतविशिष्टत्वाकारेणैव तदुत्पत्तिविनाशयोर्वक्तव्यत्वात् / एतावस्कालमिह रजतं नाभूदिदानीमासीदित्यनुभवोऽपि तदुत्पत्तौ मानम्। __ अन्यथा स्वप्ने गजादेरुत्पत्तिविनाशौ न स्याताम। यत्तु रजतस्य सोपादानत्वे सकर्तृकत्वापत्तिरिति तत्त तथैव तस्मादघटादिवद्रजतस्य नअर्थानुल्लिखितधी विषयत्वात पूर्वोत्तरकोटयुपलभ्भाच्च भावत्वं कार्यत्वं च सिद्धमिति न तदसिद्धिः / अस्त्वात्मोपादानमिति चेत् सत्यमधिष्ठानतया स उपादानं अन्यथाभावमि त्वज्ञानमेव / काचादेरुपाक्षानत्वनिरासः एतेन काचादिरन्तः करणं वोपादानमिति निरस्तम् / काचादेरतद्देशत्वात् शृङ्गवदित्याशंक्याप्रयोजकत्वान्नैतदित्यभिप्रेत्याह-एवमिति / उक्तन्यायेन नवीनप्रलापोऽपि निरस्त इत्याह-एतेनेति / तस्यैव चोद्यान्तरमनुवदति-यत्त्विति / नवीनमते स्वाप्नगजादेरुत्पत्त्यादिमत्त्वेऽपि यथा न स्वरूपेण तदुपलंभः किन्तु स्वप्नभ्रम उत्पन्न इत्यादिरूपेणेवैवमिहापीति परिहरति-तन्नेति / रजत भ्रम उत्पन्न इत्यादिप्रतीति भ्रमस्यैवोत्पत्त्यादिविषयिणी, किं न स्यादित्यत आह-रजतभ्रमस्येति / रजते कादाचित्कत्वानुभवाच्चोत्पत्त्यादिकमप्युपेयमित्याह-एतावत्कालभिति / रजतमुत्पन्नमित्याद्याकारानुभवाभावेन तदुत्पत्याद्यपलापे दोषमाह-अन्यथेति / मायिकस्यापि सकर्तृकत्वोपपादनात् तदापादनमिष्टमित्याहतथैवेति / असिद्धिनिराकरणं निगमयति-तस्मादिति / तथापि पारिशेष्यासिद्धिरिति शङ्कते-अस्विति / किमात्मनोऽधिष्ठानतया रजताधुपादानत्वमुत परिणामितया? आद्यस्त्विष्यत इत्याह-सत्यमिति / / द्वितीयमपवदति-अन्यथेति / धर्मिसमसत्ताकान्यथाभावस्य परिणामत्वादनिर्वचनीये तादृशमेवाज्ञानं परिणामितयोगदानमित्यर्थः / दोषोऽन्तः करणं वा परिणामि तदुपादानमस्त्वित्याशंक्याह-रतेनेति / अतद्देशत्वादिति / रजताद्यनाश्रयत्वादित्यर्थः / किञ्चानुगताज्ञानस्योपादानत्वे भ्रममात्रे