________________ 409 तृतीयः परिच्छेदः रजतोपादानम्। न च प्रतिबंधकामावविषयतया तदन्यथासिद्धिःतत्वज्ञानस्य प्रतिबन्धकत्वादिति वाच्यम्। तत्वज्ञानस्य दोषादिघटितरजतसामग्रीकालीनत्वाभावेनाप्रतिवन्धकत्वात् शुक्तिज्ञानकाले नियमेन निवर्तमानरजतस्याज्ञानातिरिक्तोपादानाभावाच्च / रजतं सोपादानं भावकार्यत्वात संप्रतिपन्नवत / भावत्व चानिर्वचनीये रजते घटादिसाधारणमस्तीति नासिद्धिः। न च सद्विलक्षणत्वादसदिव रजतं सोपादानं न भवतांति वाच्यम् / घटादौ व्यभिचारात्। न च सद्विलक्षणत्वे भावकार्यत्वमेव रजतस्य न स्यादिति वाच्यम्, सत: कार्यत्वानुपपत्तेः भावकार्यत्वस्येव विलोपप्रमङ्गात् सत्वरूपभावत्वस्य ध्वंसेऽपि सत्वात् / सकलपदार्थानुगतसत्तातिरिक्तसत्ताजात्यभावाच्च बाधायोग्यत्वसत्वातिरिक्तजातेः रजतत्वादिवत् कल्पितवत्तित्वसंभवाच्च / अतः सत्वातिरिक्तमेवा शंक्याह-न चेत्या दना। सामग्रीकालीनत्वाभावेनेति / सामग्रीकालीनकार्यानुत्पादस्यैव प्रतिवंधत्वादिति भावः। अस्तु हि निमित्तमेवाज्ञानं उपादानं त्वन्यदेवेत्यत आह--शुक्तिज्ञानेति / अज्ञानातिरिक्तस्य शुक्तिज्ञाननिवर्त्यत्वायोगात् तदुपादानकं रजतादिकमपि ततो न निवर्तेताऽतस्तन्निवृत्तियोग्यमज्ञानमेव तदुपादानमित्यर्थः। पारिशेष्याच्चाज्ञानमेवोपादानमित्यभिप्रेत्याह-रजतमिति / परमते ध्वंसे व्यभिचारवारणाय भावेति विशेषणम् / मिथ्यारजतस्य भावत्वमेवासिद्धमित्याशंक्याह-भावत्वं चेति / सत्प्रतिपक्षत्वं निराकरोति न चेति / व्यभिचारा दति / न च घटादेः सत्वमेवेति वाच्यं तस्य निरस्तत्वात् / निरसिष्यमाणत्वाच्चेति भावः। विमतं न कार्य सद्विलक्षणत्वादसद्वत् / ततश्च विशेष्यासिद्धिरित्याशंक्या. प्रयोजकत्वेन परिहरति-न च सदिति / ननु सत्त्वमेव भावत्वं, तच्च सद्विलक्षणत्वेऽसिद्ध मित्याशंक्य तहि तद्ध्वंसेऽपि भावत्वसंभवात् तस्यापि सोपादानत्वं स्यादित्यभिप्रेत्याह-सत्वरूपेति / द्रव्यादित्रितयवृत्तिजातिरेव सत्वं, तस्य च ध्वंसानाश्रयत्वान्नोक्तदोष इत्याशंक्याह-सकलेति / किं च मायिकरजतस्यापि पारिभाषिकसत्वाश्रयत्वसंभवान्नासिद्धिरित्याह-बाधेति / अस्तु तर्हि वाधायोग्यत्वमेव भावत्वमित्याशंक्य तस्य परमतेऽभावेऽपि सत्वात्तदतिरिक्तमेव किंचिदभावव्यावृत्तं भावत्वं नत्रर्थानुल्लिखितधीयोग्यत्वादिरूपं परेणापि वक्तव्यं, तद्रजतादावपि तुल्यमित्याह- अत इति / अविद्या नोपादानं सद्विलक्षणत्वान्नर