SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् अभावत्वात् ध्वंसवदिति वा शुक्तिरजतत्वं तद्रजताभाववृत्तित्वसमानाधिकरणं तद्रजतवृत्तित्वात् ज्ञेयत्वादिवत्। द्रव्यत्वादिकं च पक्षतुल्यमिति रजतस्य स्वाभाववृत्तित्वसिद्धौ रजताश्रयस्य तदभावस्य पूर्ववत् तदनधिकरणावृत्तित्वं साध्यम् / अतः शुक्तौ प्रतीयमानं रजतं मिथ्याऽनिर्वचनीयमिति सिद्धम् / अज्ञानस्योपादानत्वसमर्यनम् तत्रान्वयव्यतिरेकाभ्यामविद्योपादानं; तथाहि-अज्ञानं तावदनादिभावरूपं वर्णितं / तच्च शुक्त्यज्ञाने सति रजतं, नोचेन्नेत्यन्वयव्यतिरेकानुविधायि संयोगादिः तदतिरिक्तः स्वानधिकरणानधिकरणश्च योऽभावस्तत्प्रतियोगीत्यर्थः / अत्र स्वपदं समभिव्याहृतप्रतियोगिपरम्। अभा प्रतियोगोत्युक्ते घटादिनिष्ठात्यन्ताभावप्रतियोगित्वेनार्थान्तरता स्यात् तन्निवारणाय स्वानधिकरणेत्या द। एवमपि स्वसमानाधिकरणध्वंसप्रतियोगित्वेनार्थान्तरता, तद्वारणाय कादाचित्कातिरिक्तति / घटादौ साध्यवैकल्यपरिहारायैतद्रजतपतियोगीति / तथा च घटादेः पक्षीकृत रजतप्रतियोगिककादाचित्कातिरिक्तध्वंसप्रतियोगित्वात् तस्य स्वानधिकरणानधिकरणत्वाच्च तत्र साध्यसिद्धिः। पक्षे तु स्वप्रतियोगिककादाचित्कातिरिक्तस्वानधिकरणानधिकरणश्चाभावो नाधिष्ठानादन्यः संभवीत्यधिष्ठानचैतन्यस्यैव तादृशाभावत्वमादाय तत्प्रतियोगित्वेन साध्यसिद्धिः। परमते गगनादी सिद्धान्ते चात्मनि व्यभिचारवारणाय हेतौ - कादाचित्केति / प्रागभावव्यावृत्तये भावत्वादिति रजतात्यन्ताभावस्य प्रतियोग्यनधिकरणनिष्ठत्वे निषिद्धेऽर्थात् सोऽधिष्ठानात्मकतया सिद्धयति / अधिष्ठानातिरिक्तात्यन्ताभावस्य प्रतियोग्यनधिकरणनिष्ठत्वनियमादित्यभिप्रेत्य पुनः प्रयुङ्क्ते-- श्रुक्तिरजतेति अभावत्वादिति / ध्वंसाप्रतियोग्यभावत्वादित्यर्थः / अतो नात्यन्ताभावाभावरूपे घटे व्यभिचारः। द्वितीये लक्षणेऽप्याह-शुक्तिरजतत्वमिति / पक्षीकृतरजतत्वाश्रयस्तद्रजतं तदभाववृत्तित्वसामानाधिकरण्यं रजतसत्यत्वेऽपि घटते। तदाश्रयशुक्तेः स्वाभावाभावरूपत्वात् तदर्थं तद्रजतेति / शुक्तिरजतमात्रवृत्तिधर्मस्य शुक्तिरजताभाववृत्तित्वसामानाधिकरण्यं शुत्तिरजतस्य स्वाभाववृत्तित्वमादायैव सिद्धयतीति भावः। आपणस्थरजतादौ व्यभिचारवारणाय तदिति विशेषणम् / ज्ञेयत्वस्य शुक्तिरजताभाववृत्तिमिमात्रनिष्ठत्वात्, तत्तित्वेन समानाधिकरण्यं प्रसिद्धम्। पक्षीकृतरजतत्वाश्रयस्य स्वाभाववृत्तित्वेन तनिष्ठद्रव्यत्वादेरपि तत्सामानाधिकरण्यमस्तीति न तत्र व्यभिचार इत्यभिप्रेत्याह-द्रव्यत्वादिकं चेति / एवमपि विशिष्टलक्षणासिद्धिमाशंक्याहइति रजतस्येति / पूर्ववदिति / ध्वंसं दृष्टान्तं कृत्वाऽभावत्वेनेत्यर्थः। मिथ्यात्वस्योपपादनात् तद्रपानिर्वचनीयत्वमपि सिद्धमित्याह-अत इ.त / अनिर्वचनीयरजते तदुचितसामग्री निरूपयितुमाह-तत्रेति / उक्तान्वयव्यतिरेको नोपादानविषयौ किन्तु तत्वज्ञानस्याध्यासप्रतिवन्धकत्वात् तदभावविषयावित्या
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy