SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 407 सतो वृत्तिमतः स्वानधिकरणाधिकरणवृत्यत्यन्ताभावप्रतियोगित्वात् सत्यसंभावित. धर्मस्यैव मिथ्याशब्दार्थत्वात् / न च सतोऽपि निरधिकरणात्यन्ताभावोऽस्तीति वाच्यम् अभावरूपात्यन्ताभावद्वये प्रमाणाभावात् प्रतीयमानस्तु साधिकरण एव / स्वानधिकरणावृतिस्वाभाववृत्तित्वं वा मिथ्यात्वं तस्माच्छक्तिरजतमेतद्रजतप्रतियोगिककादाचित्कातिरिक्तस्वानाधिकरणानधिकरणाभावप्रतियोगि कादाचित्काभावत्वात् घटवत्। शुक्तिरजतात्यन्ताभावः प्रतियोग्यनधिकरणानधिकरणः असतोऽप्यधिकरणाप्रसिद्धिरेवेत्यर्थः। रूपादिषु पनिरूपितं गुणत्वादिकं यथा सत्यमिथ्यावस्तुसाधारणमेवमेतदपीत्याशंक्याह-न चैतदिति / सत्यत्वमते घटादावुक्तधर्माभावेऽपि कथं तस्य मिथ्याशब्दार्थत्वमित्यत आह-सतीति / परमार्थत्वपक्ष इत्यर्थः / ननु घटादेः सत्यत्वेऽपि निरधिकरणा. वान्तरप्रतियोगित्वेनाप्युक्तलक्षणोपपत्तिरित्याशंक्याह-न च सतोऽवीति / घटादिप्रतियोगिकनिरधिकरणाभावः किं भावान्तरात्मकः उताभावान्तरमेव वा ? नाद्यः, निरधिकरणाभावरूपब्रह्मणि घटादेरध्यस्तत्वं विना तस्य तत्प्रतियोगिकाभावताऽयोगादित्यभिप्रेत्य द्वितीये दोषमाहअभावेति / न च वक्ष्यमाण:नुमानमेव तत्र मानमिति वाच्यम् तस्याधिष्ठानातिरिक्तनिरधिकरणाभावविषयत्वे गौरवेणाप्रयोजकत्वादिति भावः / तहि भूतलादी प्रतीयमानाभावस्यैव निरधिकरणत्वेन घटादावुक्तलक्षणोपपत्तिरित्यत आह–प्रतीयमानस्त्विति / ___ अधिष्ठानमेवाभाव इति पक्षे लक्षणान्तरमाह-स्वानधिकरणेति / स्वस्यानधिकरणे न वर्तते यः स्वाभावस्तवृत्तित्वं मिथ्यात्वमित्यर्थः / अत्र स्वाभाववृत्तित्वमित्युक्ते घटाद्यत्यन्ताभावस्य परमते घटादिरूपस्वाभाववृत्तित्वादंशतः सिद्धसाधनं स्यात् तद्वारणायावृत्तीति / एवमप्याकाशात्यन्ताभावस्याबृत्तिस्वाभावरूपाकाशवृत्तित्वमस्तीति तद्वारणाय स्वानधिकरणेति / आकाशात्यन्ताभावस्यानधिकरणाप्रसिद्धर्न तत्र संभवः / परमते पृथिवीत्वादिव्यावृत्त्यर्थं द्वितीयं स्वपदं पृथिवीत्वाश्रयस्य घटस्य पृथिवीत्वानधिकरणजलावृत्तित्वात् स्वाभावत्वात् स्वाभावाभावत्वाच्च स्वपदाभावे तवृत्तिपृथिवीत्वादावपि प्रसक्तेः / न च प्रतियोगिनः स्वाभाववृत्तित्वमसंभवीति वाच्यम् / अधिष्ठानताश्रयस्यैवारोपिताभावत्वोपपादनादिति भावः। तत्र तावत् प्रथमोक्तलक्षणमिथ्यात्वे मानमाह-- तस्मादिति / ख्यात्यन्तरनिराकरणेन शुक्तौ भावरूपरजतस्य साधितत्वान्नाश्रयासिद्धिः। एतत्पदं पक्षपरम्। रजतपद तु स्पष्टार्थम् / एतद्रजतप्रतियोगीत्युक्तेर्यः कादाचित्क 52
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy