________________ 406 सटीकाद्वैतदीपिकायाम् कल्पितस्याभावः अधिठानमेवेति सिद्धान्तपक्षः बाधकप्रत्यक्षं मिथ्यात्वे प्रमाणमिति दतामाचार्याणामधिष्ठानमेव कल्पितात्यन्ताभाव इति मतम् / श्रुतिरपि 'प्रपञ्चोपशमः शिवोऽद्वैतः स्वप्रकाशमानन्द शून्यमभवत्" 'यत्र त्वस्य सर्वमात्मवाभूदि"त्याद्या ब्रह्मणः प्रपञ्चाभावात्मत्वं दर्शयति / तथा च स्वानधिकरणानधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् / - भवति हि शक्तिरजतस्वप्नरथादि स्वाधिकरणानतिरिक्तदेशानधिकरणकस्य स्वाधिष्ठानीभूतस्वात्यन्ताभावात्मकचैतन्यस्य प्रतियोगि। चैतन्यस्य निरधिकरण. त्वात् / न चैतत् क्वचित् पराभ्युपगतपदार्थेऽतिव्याप्तम्। नाप्यात्मनि तदधिकरणाप्रसिद्धः। अत एव न पराभिमतासति / न चैतत् परेषां गुणादिवत् पारिभाषिकं भाववादेऽप्यस्य चोद्यस्य समाधयत्वात् / कथं चित्तव तत्समाधानं नास्माकं दंडवारितमिति अधिष्ठानचेतन्यातिरेकेण कस्याप्यभावस्य दुनिरूपत्वात् स एव सर्वोऽभाव इत्याह- तस्मादिति | अधिष्ठानस्यारोपिताभावात्मत्व पूर्वाचार्याणामसंमतमित्याशंक्याह-बाधकेति / "नेदं रजतमिति बाधोऽपि मायामयत्वमेव सूचयति" इत्यत्र पंचपादिकाकृद्भिःप्रतिपन्नोपाधौ त्रैकालिकनिषेप्रतियोगित्वरूपमिथ्यात्वं बाधकप्रत्यक्षसिद्धमित्युक्तं तदधिष्ठानस्यैवारोपिताभावात्मत्वे घटतेऽतिरिक्ताभावस्य षष्ठप्रमाणगोचरत्वाभ्युपगमादिति भावः / ब्रह्मणः प्रपञ्चाभावात्मकत्वस्य श्रुतत्वादप्येवमेवेत्याह--श्रुतिरपीति / अस्मिन् पक्षे पूर्वोक्तलक्षणायोगात् किं मिथ्यात्वलक्षणमिति वीक्षायामाह-तथाचेति / स्वस्य यदनधिकरणं तदधिकरणं न भववि यस्यात्यन्ताभावस्य तत्प्रतियोगित्वं मिथ्यात्वमित्यर्थः। तत्रात्यन्ताभावप्रतियोगित्वमात्रस्य सत्यत्वेपि संभवात्परं प्रति तत्साधने सिद्धसाधनता स्यात् तन्निराकरणायानधिकरणेत्यत्यन्ताभावविशेषणम् / तथा च ब्रह्मातिरिक्ताभावस्य साधिकरणत्वनियमात् निरधिकरणस्य ब्रह्मणः प्रपञ्चमिथ्यात्वं विना. तदभावत्वानुपपत्तेर्न सिद्धसाधनता। एवमपि परमते वियदत्यन्ताभावस्य निरधिकरणगगनादिरूपात्यन्ताभावप्रतियोगित्वेनांशतः सिद्धसाधनता स्यात् / तद्वारणाय स्वानधिकरणेत्युक्तम् / परमते गगनात्यन्ताभावस्य केवलान्वयितया तदनधिकरणाप्रसिद्धेर्न तत्रोक्तलक्षणसंभवः / अत्र स्वानधिकरणपदेन स्वानधिकरणाधिकरणत्वरहितत्वं विवक्षितं, ततश्च परमते घटाद्यभावस्य घटानधिकरणस्वानधिकरणकत्वेऽपि तदनधिकरणघटाद्यधिकरणकत्वान्न घटादौ सिद्धसाधनतेति / अत्र नाव्याप्त्यादिदोषशंकेत्याह-भवति हीत्यादिना / अतिव्याप्तमिति / घटादेः सत्यत्वमते स्वानधिकरणदेशवृत्त्यत्यन्ताभावप्रतियोगित्वनियमादिति शेषः / अत एवेति /