________________ तृतीयः परिच्छेदः 405 त्वात् / तस्मात् प्रपञ्चस्यात्यन्ताभावो भेदो निवृत्तिश्चाधिष्ठानचैतन्य मिति स्थि म्। तत्संबन्धं दिना तत्र विद्यमानत्वायोगात् समयान्तरेऽपि तस्य तत्र संबन्धाभावप्रसङ्गाच्च / न च समयान्तरे संबंधांतरं जायत इति शक्यं वक्तम् / अभावस्य जन्यधर्मानाश्रयत्वात् / नन्वत्यन्ताभावः समयविशेषमपेक्ष्याधिकरणसंसर्गिस्वभावः न सर्वदेति चेन्न अत्यन्ताभावतदधिकरणस्वरूपयोः समयविशेषानपेक्षत्वात् / तदपेक्षत्वे च कार्यत्वप्रसंगेन तत्तत्स्वरूपत्वानुपपत्तेः / समयविशेषोऽपि यदि प्रतियोगिकालादन्यकालत्वं तदा प्रतियोगिकाले कुत्राप्यत्यन्ताभागे न स्यात् / अन्यश्च विशेषो दुनिरूपः / अस्तु प्रतियोगिदेशान्यदेश एवात्यन्ताभावसंबध इति / तन्न। घटसंबन्धसंसर्गात्पूर्व भूतलादेः प्रतियोगिदेशान्यत्वेन तत्कालेऽपि तदन्यत्वानपायात् / अन्यथा तदेवेदमिति प्रत्यभिज्ञा. विरोधात् प्रतियोगिदेशान्यत्वस्य प्रतियोगिसन्निधाने विनाशगमनयोरनुपपत्तेश्च / यदप्यभावभूतलयोविशिष्टप्रतीतिजननयोग्यत्वं संबन्ध इति / तन्न। घटवत्यपि तत्प्रसङ्गात् / योग्यताया यावत्स्वरूपं सत्वादभावत्वस्य दुनिरूपत्वाच्च / किं चात्यन्ताभावस्य प्रतियोगिविरहैकस्वभावत्वे प्रागभाववत्प्रतियोगिकालीनत्वानुपपत्तिः।तदभावस्य घटादेर्जन्यत्वेन प्रागभाववदनित्यत्वप्रसंगश्च / जन्याभावप्रतियोगित्वस्यैवानित्यपदार्थत्वात् / स्वजन्याभावप्रतियोगित्वस्यैव तत्वे गौरवात् / इदमत्र सर्वदा नास्तीति बुद्धरभावो नास्तीतिवदन्यथैवोपपत्तः। __ ननु सिद्धान्तेऽपि ब्रह्मणो घटाद्यभावत्वे घटादेरपि तदभावत्वाज्जन्यत्वाच्च ब्रह्मणोऽप्यनित्यत्वापात इति चेन्न धर्मिसमसत्ताकस्यैवानित्याभावप्रतियोगित्वस्यानित्यपदार्थत्वात् / अन्यथाऽऽरोपितध्वंसप्रतियोगित्वस्य सर्वत्र सुलभतया नित्यपदार्थाभावापातात् / ब्रह्मणि घटादिविरहात्मत्वं न धर्मिसमसत्ताकमिति नोक्तदोषः। तस्माद् भूतलादावतिरिक्ताभावाङ्गीकारे घटादिसत्वायोगाच्चैतन्यमेव तत्राभावबुद्धयालंबनम् / एतेन मृदादौ घटाद्यभावबुद्धेः सामयिकाभावविषयत्वसंभवान्न सर्वत्राभावबुद्धेश्चैतन्य. विषयतेति निरस्तम्, उक्तन्यायेन तत्रापि चैतन्यातिरिक्ताभावस्य दुर्निरूपत्वात् / यत्तु भूतलादिकमेव घटाद्यभाव इति / तन्न। तथात्वे तत्र कदापि घटसत्वानुपपत्तेः प्रतियोगिसत्वाविरोधिनोऽभावत्वं पारिभाषिकमेव / नास्तीति बुद्धेरेकविषयत्वेसंभवत्यनन्तविषयत्वकल्पनायोगाच्च। एवं घटादिध्वंसोऽपि चैतन्यमेव अविद्यानिवृत्तिवत् तस्यात्मरूपत्वेऽपि साध्यत्वसंभवात् / नन्वेवं घटवति घटाभावबुद्धिः प्रमा स्यात् शुक्तिरजतादेरिव घटादेः कालिकनिषेधो व्यवहारकालेऽपि स्यात् / प्रतिबन्धकवत्यपि कार्यं स्यादिति चेन्न / अतिरिक्ता