SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 404 सटीकाद्वैतदीपिकायाम् श्यकतया तदतिरिक्तध्वंसस्यैव तदसमानकालोनत्वनियमात् / एवमन्योन्याभावोऽपि। न चैवमभावसांकर्यदोषः क्वचित्तस्य प्रामाणित्वात् क्वचित् तवापि तस्येष्टत्वात् / ननु शुक्त्यवच्छिन्नचैतन्याधिकरणतयव तदभावप्रतीतेः कथमभावस्य तवात्मत्वं ? तस्य भ्रमत्वे वा न तदभावस्य तदात्मत्वं प्रमाणाभावादिति चेत न: गुक्तो रजतं नास्तीति निषेधावगमस्य घटाप्यन्ताभावे घटो नास्तीति बुद्धेरिव तवधिकरणत्वांशे भ्रमत्वेऽपि तत्संबन्ध्यभावांशे अभ्रमत्वात् / न चैवं भावस्याभावशब्दः परिभाषामात्रं नास्तिबुद्धिविषयत्वप्रतियोगिस. स्वविरोधित्वाभ्यां तस्य परिभाषामात्रत्वानुपपत्तेः। वस्तुतस्तु भूतलादावपि घटाद्यभावश्चैतन्यमे त य तद्भेदे प्रमाणाभावात् / अन्यथा भूतलादो घटादिसत्वानुपपत्तेः घटकालेऽपि तत्र तदभावस्यावश्यक सप्रतियोगिकस्वभावाभावेष्वेवोक्तविरोध इत्यभिप्रेत्याह-न चैवमिति / किं च परैरप्येकस्य घटस्य प्रागभावध्वंसात्यन्ताभावत्यंताभावध्वंसप्रागभावात्मत्वाङ्गीकारान्न दोष इत्याह-क्वचिदिति / ननु शुक्तौ रजतं नास्तीति बुद्धिः प्रमोत भ्रमः आयेऽधिष्ठानस्याभावाधारत्वप्रमाविरुद्धं तदभेदाभिधानमित्याह-नन्विति / द्वितीये रजताभावस्यैवासिद्धेर्न तस्याधिष्ठानाभेद इत्याह-भ्रमत्वेवेति / अधिष्ठानातिरिक्ताभावस्य दुर्निरूपत्वेनाभाव. बुद्धेराधाराधेयभावांशेऽप्रमात्वान्नोक्तदोष इति सदृष्टान्तमाह-न शुक्ताविति / न च धटाभावोऽपि घटाभावाश्रय इति वाच्यम् / एकप्रतियोगिकात्यन्ताभावद्वयाभावात् स्वस्यापि स्ववृत्तित्वानुपपत्तेश्चेति भावः। अधिष्ठानमात्रस्य परैरप्यभ्युपगमान्न विवाद इत्याशंक्य ततिरिक्ताभावनिराकरणेन तस्यैवाभावत्वप्रयोजकरूपत्वप्रसाधनान्मवमित्याह-न चैवमित्यादिग। अधिष्ठानातिरिकेणारोप्याभावस्य दुनिरूपत्ववद्भूतलादावपि चैतन्यातिरेकेण घटाद्यभावस्य दुनिरूपत्वात् सर्वत्रैकमेव चैतन्य धटादिविरहात्मनाऽभावबुद्धयालम्बनम् / एवं च नाभाववैविध्यमपि कल्पनीयम् अनुपलब्धिप्रमाणांगीकरणं तु अतिरिक्ताभावाभ्युपगमवादेनेत्यभिप्रेत्याह-वस्तुतस्त्विति / प्रमाणभावादिति / घटो नास्तोत्यादिबुद्धेश्चैतन्यरूपाभावविषयत्वेनोपपत्तेरिति भावः / भूतलादौ घटादिसमानसत्ताकाभावाभ्युपगमे दोषमाह-अन्यथेति / प्रतियोगिकाले तदधिकरणे तदभावाभावाद्धटादिसत्त्वोपपत्तिरित्याशंक्याह-धटकाले पीति अयमभिसंधिः-अस्ति हि घटानयनात् पूर्वं भूतले तदभावः स च प्रतियोगिसमवधानकालेऽपि तत्र वक्तव्यः तस्य नित्यत्वानिष्क्रियत्वाच्च। तत्काले विनाशगमनयोरनुपपत्तेः तत्र तस्य विद्यमानत्वेऽपि तत्संबन्धाभावान्न प्रतियोगिनो विरोध इति चेत्, न
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy