________________ तृतीयः परिच्छेदः 473 प्रतियोगिसमानस्वभावत्वनियमाच्च / किं च शुक्तौ प्रतीयमानरजतस्य रजतमिह नास्तीति स्वरूपेण निषेधो दृश्यते / स चाभावो न वास्तवो व्यावहारिको वा अर्थक्रियायोग्यरजताभावस्य तदयोगादित्युक्तम् / ततश्चाधिकरणभिन्नसत्ताकप्रतियोगिकत्वं यस्य स एवाभावोऽधिकरणाद् भिद्यत इत्यारोपिस्याभावः स्वाधिकरणान्न भिद्यते। घटाद्यभावस्तु भूतलाद् भिद्यते घटभूतलयोः सामानाधिकरण्यानुभवाभावेन तद्भदस्यापि सत्वात्। अत एव घटादौ शुक्तिरजताभावोऽपि भिन्न एव / कथमेकप्रतियोगिकाभावद्वयं ? अनुभववलादेकस्यान्योन्याभावस्य भेदवदत्यन्ताभावस्यापि तदुपपत्तेः। ध्वंसस्य द्वैविध्यनिरूपणम् एवं ध्वंसोऽपि द्विविधः घटादिध्वंसार्थं प्रवृत्तिदर्शनन तदधिष्ठानादन्यस्य भूतलादिवृत्तरेकस्य तदधिष्ठानाभिन्नसत्ताकप्रतियोगिकतया तदधिष्ठानात्मनश्चापरस्य प्रमाणसिद्धत्वात् / न च प्रतियोगिनो ध्वंकालीनत्वानुपपत्तिः। अधिष्ठाने तत्कालीनत्वस्याव न चाभावस्य प्रतियोगित्वावच्छेदकसमानस्वभावत्वमेवेति वाच्यम् गौरवाच्छशशृङ्गं नास्तीति प्रतीतेस्तदस्तित्वज्ञानवन्निविषयत्वाच्चेति भावः / कि च रजतनिषेधे न सत्वं प्रतियोलितावच्छेदकं येन तस्य पारमार्थिकता स्यादित्याह-किं चेति / निषेध इति त्रैकालिक इति शेषः। ततः किमित्याशंक्य तस्याधिष्ठानातिरिक्तस्य प्रातिभासिकत्वायोगात् पारमार्थिक वं व्यावहारिकत्वं वा वक्तव्यं तदुभयमप्ययुक्त प्रतियोगिविरहात्मकाभावस्य प्रतियोगिसमानस्वभावत्वादित्याह-स चेति / फलितमाह-ततश्चेति / रजतस्थितिदशायामिदंरजतयोर्भेदस्य सत्वेनाननुभवादिदं रजतमिति सत्तक्यानुभवाच्च रजतस्य नाधिकरणभिन्नसताकत्वं ततस्तदमावो नाधिकरणाद् भिद्यत इत्याह-इत्यारोपितस्येति / आरोप्याभावस्याधिष्टानात्मकत्वेऽनुपलब्धिप्रमाणस्य कुत्रोपयोग इत्याशंक्य तद्विषयमाह-घटाद्यभावस्त्विति / सामानाधिकरण्यानुभवाभावेनेत्येतद टो भूतलं नेति भेदसत्तानुभवस्याप्युपलक्षणं, एवं तर्हि घटादावपि रजताद्यभावोऽधिकरणाद् भिद्यतेत्याशंक्येष्टापत्तिमाह-त एवेति / . नन्वेकस्य प्रतियोगिनोऽधिष्टानात्मक एकोऽत्यन्ताभावः अपरश्च घटादौ अभावात्मक इत्यत्यन्ताभावद्वयमनुपपन्नमित्याशंक्य घटभेदप्रतियोगिकभेदस्तत्प्रतियोग्यधिकरणात्मकः / पटादौ त्वभावात्मक इत्यनुभवबलाद्यथाऽन्योन्याभावद्वयमेकप्रतियोगिकं, तथात्यन्ताभावद्वयमविरुद्धमित्याह-कथमेकेत्यादिना। आरोपितात्यन्ताभावस्य द्वैविध्यवत्तद्ध्वंसान्योन्याभावयोरपि न्यायसाम्थाद् द्वैविध्यमित्याह-एवं ध्वंसोऽपीत्यादिना। स्वष्टार्थोऽयं ग्रन्थः। ध्वंसात्यन्ताभावान्योन्याभावानामभेदस्य विरुद्धत्वात् कथमेकस्याधिष्ठानस्य त्रितयात्मकत्वमित्याशंक्याधिष्ठाने तदात्मकत्वस्य प्रामाणिकत्वात्