________________ 402 सटीकाद्वैतदीपिकाया साध्यस्य निश्चितत्वात् / अत एव मिथ्यात्वं प्रत्यक्षमित्याहुः। आरोपिताभाव अधिष्ठानमेव अन्ये त्वारोपितस्याभावस्तदधिकरणे तस्मान भिद्यते अधिकरणभिन्नसत्ताकप्रतियोगिकाभावस्यैवाधिकरणाद भेदात् / न चाभावस्थाधिकरणा दे प्रतियोगिनस्तद्धेद एव लाघवात् प्रयोजक इति वाच्यम। तथात्वे प्रपञ्चाभावस्य ब्रह्मणोऽतिरेके तस्याद्वितीयत्वावधारणबहुश्रुतिविरोधप्रसङ्गात् / श्रुतिर्भावाद्वैतपरेति चेत् न, द्वैतमात्रस्य तत्र निषेधावगमात् / संकोचकाभावाच्च / किं चाभावस्य ब्रह्मणि सत्यत्वे दृश्यत्वहेतोस्तत्र व्यभिचारः। अदृश्यत्वे चास्वप्रकाशस्य तस्याभाव एव / ब्रह्मप्रकाशस्यापि तदविषयत्वेऽसर्वशं ब्रह्म स्यात। ब्रह्मणोऽपि व्यावृत्तत्वे स्वरूपव्याघाताच्च / सप्रतियोगिकाभावस्य दर्शनविषयत्वं दर्शनं च ब्रह्मात्मकमिति न तस्य तद्विषयत्वमिति वक्ष्यत इत्यर्थः / संयोगादावव्याप्यवृत्तित्वमुपाधिमाशंक्यानुकूलेन तर्केणेति न्यायात् तस्यानुपाधित्वमाह न च प्रदेशेति / अत एवेति / यतो रजताभावस्तत्कालीनतया तदधिकरणेऽनुभूयतेऽतो नेदं रजतमिति वाधोऽपि मायामयत्वमेव सृचयतीति तत्प्रत्यक्षत्वं पञ्चादिकाकृत आहुरित्यर्थः। / अधिष्ठानातिरिक्तारोप्याभावस्तत्र परमार्थ इत्यरुचिं दर्शयन् पक्षान्तरमाह-अन्ये विति / अमावस्याधिकरणभिन्नसत्ताकप्रतियोगिकत्वं नाधिकरणाद् भेदे प्रयोजकं किन्तु . लाघवादधिकरणभिन्नप्रतियोगिकत्वमेवेत्याशंक्य श्रतिविरोधान्नोक्तलाघवावतार इत्याहन चाभावस्येत्यादिना / ब्रह्मातिरिक्ताभावस्य सत्वेऽपि सतो भावान्तरस्याभावात्तत्परश्रुतेन विरोध इति शंकते-अतिरिति / एकमेवाद्वितोयमित्यादौ निषिध्यमानद्वैतविशेषणतया भावत्वाश्रवणात् द्वैतमात्रनिषेध एव इत्याह-न तेति / उक्तलाघवाच्छू तिर्भावद्वैतनिषेधपरतया नीयत इत्याशंक्याह-संकोचकेति / लाघवतर्काच्छ तिसंकेचे ब्रीहीन प्रोक्षतीत्यादारपि लाघवात् त्रयाणामेव ब्रीहीणां प्रोक्षणादिप्रसङ्गादिति भावः / किञ्चाधिष्ठानातिरिक्ताभावस्य मिथ्यात्वे निषेधानवस्थापातात् सत्वमेव वाच्यं तथा च स कि दृश्यः अदृश्यो वा। ___ आये मिथ्यात्वसाधकतया सर्वसंप्रतिपन्नदृश्यत्वहेतोस्तत्र व्यभिचार इत्याहकिं चेति / द्वितीये मानाभावात् स एव न सिद्धयेदित्याह-अदृश्यत्व इति / ब्रह्माति... रिक्तस्य तददृश्यत्वे तस्य सार्वज्यमपि न स्यादित्याह-ब्रह्मेति / किं च सत्यादिवाक्ये त्रिविधपरिछेदरहितस्यैव ब्रह्मत्वेन लक्षितत्वात् तदतिरिक्त वास्तवाभावाभ्युपगमे तद्विरोधश्च स्यादित्याह-ब्रह्मणोऽसीति / अधिष्ठानातिरिक्ताभावस्य ., पारमार्थिकत्वमप्ययुक्तमित्याह-सप्रतियोगि केति /