________________ तृतीयः परिच्छेदः 401 निषेधप्रसंगात् / एवं तस्य तस्यापोति निषेधानवस्था गौरवं च प्रामाणिकत्वान्न दोषाय। ननु व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावो न स्वाधिकरणे प्रतियोगिसत्वविरोधीति चेत् / न, सत्वावच्छिन्नप्रतियोगिकाभावस्य स्वाधिकरणे प्रतियोगिसत्वविरोधित्वात् / यत्तु निर्धर्मब्रह्मणोऽप्येवमत्यन्ताभावप्रतियोगित्वमिति तथापि तस्याधिकरणाभावात् / तस्मात् प्रदेशभेदेन स्वाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगि शुक्तिरजतं स्वसमानकालीनस्वसमानाधिकरणात्यन्ताभावप्रतियोगि दृश्यत्वात् संयोगादिवत् / अन्यथा रजत्तस्य शुक्तौ कालिकनिषेधानुपपत्तेः प्रपञ्चोऽपि पक्षतुल्य इति न व्यभिचारः न ब्रह्मणि हेतुः / न च प्रदेशवृत्तित्वमुपाधिः / उक्ततर्कात पक्षे ननु प्रतियोगितावच्छेदकसमानस्वभावाभावकल्पनमपि गौरवदोषदुष्टमिति नेत्याह--गौरवं चेति / ननु गवि सत्यपि शृङ्गे यथा गवि शशीयत्वावच्छिन्नंशृङ्गाभाव एवं शुक्ती सत्यपि रजते व्यधिकरणसत्वावच्छिन्नतदभावो घटते / ततश्च रजतं न सद्विलक्षणमिति शङ्कते-नन्विति / विशेष्यवति विशिष्टनिषेधस्य विशेष्ये विशेषणाभावप्रयुक्तत्वाद् विद्यमाने रजते सत्वाभावादेव तद्विशिष्टनिषेध इति रजते सद्वैलझण्यसिद्धिरित्याह-न सत्वेति / नन्वेवं सत्वपरिज्ञाने तदवच्छिन्नतया स्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वपरिज्ञानं तज्ज्ञाने च तदन्यत्वरूपसत्वपरिज्ञानमितीतरेतराश्रय इति चेन्न; आत्मस्वरूपाखंडसत्वस्य मिथ्याज्ञानं विनापि ज्ञातुं शक्यत्वादधिष्ठानज्ञानानिव~स्वलक्षणवाधायोग्यत्वरूपतटस्थलक्षणस्यापि तन्निरपेक्षत्वाच्चेति भावः / ब्रह्मणि परोक्तातिप्रसंगमनूद्य स्वसमानाधिकरणेति विशेषणात्तन्निरास इत्याहयत्त्वित्यादिना / अत एव सत्वावच्छिन्नप्रतियोगिकाभावप्रतियोगित्वमेव मिथ्यात्वलक्षणमस्तु किं स्वसमानाधिकरणेत्यादिनेति-निरस्तम् / तस्य ब्रह्मण्यतिव्याप्तिवारकत्वात् / सत्वावच्लिन्नप्रतियोगिकाभावत्वस्य विशेषणमुक्तत्वाच्च / अत्रायं लक्षणनिष्कर्षः-एकावच्छेदेन स्वसंसृज्यमानाधिकरणे वर्तमानस्वसंसृष्टावच्छिन्नप्रतियोगिकाभावप्रतियोगित्वं मिथ्यात्वमिति / तेन सत्यत्वे संयोगादिवत् प्रदेशवृत्यत्यन्ताभावप्रतियोगित्वेन घटादिवत्सामयिकाभावप्रतियोगित्वेन नृशृङ्गवदर्ससृष्टव्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावप्रतियोगित्वेन च न लक्षणपर्यवसानमिति द्रष्टव्यम् / रजतस्योक्तलक्षणवत्वे मानमाह-तस्मादिति / संयोगादिवत्पक्षस्य सत्वेऽपि प्रदेशवृत्यत्यन्ताभावप्रतियोगित्वोपपत्यार्थान्तरवारणाय प्रदेशभेदेनेत्यादिविशेषणम्। स्वसमानकालीनेति / स्वसं. सृज्यमानाधिकरणे वर्तमानस्वसंसृष्टावच्छिन्नप्रतियोगिकाभावप्रतियोगीत्यर्थः / ततश्च न सामयिकाभावप्रतियोगित्वादिनाऽर्थान्तरत्वशङ्कावकाशः / न ब्रह्मणीति / दृश्यत्वं नाम