________________ 412 सटीकाद्वैतदीपिकायाम् तस्य तद्विषयकप्रत्यक्षाभावासंभवात् न भ्रम: स्यात् अन्यविशेष्यकश्वत्यप्रत्यक्षाभावस्तु न भ्रमकालनियतः; समानविषययोरेव तयोः कार्यकारणभावाच्च / तस्मादज्ञानमेव विशेषादर्शनहेतुरिति काचादिदोषो रजतानुभवाहितसंस्कारोऽधिष्ठानसामान्यज्ञानादिकं च तत्र निमित्तं तेषु सत्स्वेव रजतादिभ्रमदर्शनात / दोषस्य साक्षाद् भ्रमहेतुतानिरासः ननु दोषस्य भिथ्याज्ञानं प्रत्येव हेतुत्वमस्तु तदन्वयव्यतिरेकयोस्तद्विषयत्वो. पपत्तेः। रजतभ्रमस्योत्पत्तिविनाशानुभवेन तज्जन्यत्वसंभवात् / परोक्षस्थले दोषस्य ज्ञानं प्रत्येव हेतुत्वात् / एवं संस्कारोऽपि ज्ञानं प्रत्येव हेतुः ज्ञानसंस्कारस्यार्थजनकत्वाभावाच्च / एवमधिष्ठानसामान्यज्ञानमपि तत्रैव हेतुः चिकीर्षां विना ज्ञानस्यार्थाजनकत्वादिति। मैवं। अपरोक्षभ्रमस्याजन्यत्वेन दोषादेरथं प्रत्येव हेतुत्वात् / तथाहि--न तावद्रजतज्ञानमिन्द्रियजन्यं रजतस्येन्द्रियासन्निकृष्टत्वात् / तच्च तस्य तदनन्तरभावित्वात् / न हीन्द्रियसन्निकर्षात पूर्व तत्र रजतमस्ति तत्र प्रमाणाभावात् / प्रत्यक्षस्यान्यथापि संभवात् / साक्षिप्रत्यक्ष वा ज्ञानादिविषयं क्लुप्तम्। समानेति / पराभिमतविशेषादर्शनभंगफलमाह-तस्मादिति / हेतुरिति / उपादानमिति यावत् / एवं रजतादेरुपादानमुक्त्वा निमित्तकारणमपि निरूपयति–काचादीति / अदृष्टादिकमादिपदार्थः। रजतज्ञानस्यैव दोषाद्यन्वयव्यतिरेकानुविधायित्वात् तदेव तज्जन्यं न रजतमिति शंकते-नन्वित्यादिना / परोक्षभ्रमविषयस्योत्पत्यनंगीकाराभ्रम एव दोषजन्य इत्यावश्यकमिति सर्वत्र स एव तज्जन्य इत्याह-पक्षेति / तन्तुज्ञानस्य पटजनकत्ववदिदमंशज्ञानस्य रजतजनकत्वं किं न स्यादित्यत आह-चिकीर्षामिति / रजतज्ञाने करणानिरूपणेन तस्याजन्यत्वाद्दोषादिकं रजत एव कारणमिति परिहरति--- मैवमिति / नन्विन्द्रियमेव रजतज्ञाने करणमिति नेत्याह-न तावदिति / किमिन्द्रियं शुक्ति रजतसंनिकर्षमपेक्ष्य तद्ज्ञानं जनयति अनपेक्ष्य वा ? आयेऽपि किं संयोगः सन्निकर्षः संयुक्ततादात्म्यं वा ? नाद्य इत्याह-रजतस्येति / असन्निकृष्टत्वमसिद्धमित्याशंक्याहन हीति / दुष्टेन्द्रियसंयुक्तेदमंशावच्छिन्नचैतन्यस्थाविद्यापरिणामत्वाद् रजतस्येन्द्रियव्यापारात् पूर्वमभावान्न तेन संयोग इत्यर्थः। रजतज्ञानस्य' प्रत्यक्षत्वात् प्रत्यक्षस्य च विषयेन्द्रियसन्निकर्षसापेक्षत्वाद्रजतस्य ज्ञानात् पूर्वभावित्वमावश्यकमित्याशंक्य तत्प्रत्यक्षस्य साक्षिरूपत्वेनाजन्यत्वान्मेवमित्यभिप्रेत्याह-प्रत्यक्षस्येति / नित्यसाक्षिमात्रस्य जीवव्यवहारानुकूलत्वमदृष्टमित्याशंक्याह-साक्षीति /