________________ द्वितीयः परिच्छेदः भेदनिरासः विजातीयभेदं निराकरोति "सत्यं भिदासत्यम्" इति / “पञ्चभूतात्मक जगत्सत्यं सच्चासच्चाभवत्"इति श्रुतेः “सत्यस्य सत्यम्"इत्यादेच, तदेव भिद्यते इति भिदा। असत्यमनिर्वचनीयम्। तस्यैव दाढर्याय पुनरुक्तिः। भिवाऽसत्यं भिदेति / काकाक्षिन्यायेनासत्यमित्यस्योभयत्रानुकर्षः। एवं स्मृतिरपि भेदमपवदिति विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति" इति // .. “आत्मेति ह्य पगच्छन्ति ग्राहयन्ति च" इत्यादिसूत्राण्यपि भेदमपवदन्ति / श्रुत्यन्तरसम्वादमाह-सच्चेति / भिदाशब्दः कर्मसाधन इत्याह-तदेवेति / भेद एव भिवेत्युपगमेऽपि सत्यं भिदा चाऽसत्यमित्यर्थो द्रष्टव्यः / उत्तरपदत्रयस्थासत्यपदस्य पूर्वोत्तरभिदापदाभ्यामन्वयेनोक्तासत्यत्वमेवाभ्यस्यते इत्याह-तस्यैवेति / एवं परोक्तस्मृतिसूत्रयोरपि व्यावहारिकभेदविषयत्वमेवेत्यप्रेत्य जीवपरभेदस्याविद्यकत्वे विष्णुपुराणवचनमुदाहरति--एवं स्मृतिरिति / विभेदज्नकाज्ञाने तत्त्वज्ञानेन निरवशेषं नाशं प्रापिते सति जीवस्य ब्रह्मणः सकाशाद्भेदमत्यन्तमसन्तं पुनः को वा जनयिष्यति / न कोऽपीति स्मृत्यर्थः। ननु विरुद्धो भेदो यस्य स विभेद इत्यभेद उच्यते / तज्जनकेऽज्ञाने नष्ट' पुनरात्मब्रह्मणोरसन्तमभेदं कः करिष्यत्यभेदस्यैवाविद्यकत्वं तदर्थः किन्न स्यादिति चेन्न / __ "तद्भावभावमापन्नस्तदाऽसौ परमात्मना। भवत्यभेदीभेदश्च तस्याज्ञानकृतो भवेत् // इत्यव्यवहितपूर्वश्लोके स्पष्टमेव भेदस्याज्ञानकृतत्वस्य स्वाभेदस्य च तत्त्वज्ञानकालीनत्वस्य श्रवणविरोधात् / एवं "क्षेत्रज्ञं चापि मां विद्धि” “अविभक्तं च भूतेषु विभक्तमिव च स्थितम्" "ज्ञानी त्वात्मैव मे मतम्" "बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः" इत्यादिस्मृतिसहस्रविरोधाच्चेति भावः / श्रुतेरभेदपरत्वनिर्णायकसूत्राण्युदाहरति-आत्मेति / जगज्जन्मादिकारणं ब्रह्म किं पराक्त्वेन प्रतिपत्तव्यमुत प्रत्यक्त्वेनेति विशये विरुद्धधर्माध्यासेन प्रत्यक्त्वायोगाद्भ देनैव प्रतिपत्तव्यमिति पूर्वपक्ष तुशब्देन निरस्याऽऽत्मेत्येव प्रतिपत्तव्यमिति प्रतिज्ञातेऽर्थे हेतुवचनमुपगच्छन्तीत्यादि / उद्दालकादयः श्वेतकेतुप्रभृतीन् तत्त्वमसीत्यादिना प्रत्यगात्मतया ब्रह्म ग्राहयन्ति स्वयमपि त्वं वा अहमस्मीत्यादिना तथाऽनुभवन्ति / यत इति सूत्रार्थः / आदिपदेन अवस्थितेरिति काशकृत्स्नः, अन्यथा चापिदाशकितवादित्वमधीयत एके इत्यादीनि गृह्यन्ते॥