________________ सटीकाद्वैतदीपिकायाम् त्रिकालाबाध्यभेदो न प्रसिद्ध इति चेन्न। प्रत्यक्षस्य भेदविषयस्य श्रुतिसमानप्रामाण्यवादिनस्तव भेदश्रुतेः प्रत्यक्षासिद्धभेदसत्ताऽविषयत्वात् / अन्यथा तव वास्तवभेदप्रत्यक्षाधुपन्यासव्याघातात् / श्रुतिद्वयविरोधस्यापरिहार्यत्वाच्च / अभेदश्रुतेावहारिकाभेदाविषयत्वस्योक्तत्वात् / मास्तु वाऽस्य वाक्यान्तरशेषत्वम् / एतदेव वाक्यमभेदपरमस्तु / तथा हि / सत्य आत्मेत्यादिश्रुतिर्न केवलमात्मनस्त्रिकालाबाध्यत्वं सत्यत्वमाह। किं तर्हि जीवत्वमपि वास्तवं नेत्याह-असत्यो जीवः / जीवत्वमिति यावत् / विशिष्टनिषेधस्य विशेष्यबांधेन विशेषणोपसंक्रमात विविध पदविमागे संभवति बह्वभेदश्रुत्यनुरोधेन च वणितन्यायेन चासत्य इतिच्छेद एवोचितः। अनेन सजातीयो भेदो निराकृतः। * ननु सत्यं भिदेति त्रिकालाबाध्यभेद उच्यते / न चायं प्रत्यक्षगोचर इति कथं तत्सिद्धानुवादकत्वमिति शङ्कते–त्रिकालेति / . अस्मन्मतवच्छू तेः प्रत्यक्षविलक्षणप्रामाण्यस्य त्वयाऽनङ्गीकाराद्भदश्रुतेः प्रत्यक्षासिद्धविषयत्वं तव मते ऽनुपपन्नमित्याह-न प्रत्यक्षेति / अविषयत्वादिति च्छेदः / वास्तवभेदस्य श्रुत्येकगम्यत्वं वदतस्तव पूर्वापरवावयविरोधश्चेत्याह-अन्यथेति / त्वदीयश्रु तेर्वास्तवभेदपरत्वेऽभेदश्रु त्या कलहो दुर्वारः स्यादित्याह-श्रुतिद्वयेति / नन्वभेदश्रु तेरेव व्यावहारिकाभेदविषयत्वेनाविरोधः किन्न स्यादिति, नेत्याह-अभेदेति / एवं तावत्सत्यं भिदेति वाक्यस्य भेदानुवादद्वारा वाक्यान्तरगम्याभेदपरत्वमित्युक्तम् / ___ इदानीमभेदश्रु त्यविरोधायेदमेव वाक्यं साक्षादभेदपरतया नेतुं शक्यमित्याहमास्तु वेति / आकाङ्क्षापूर्वकमुत्तरोत्तरपदान्यवतारयन्नभेदपरत्वमस्य दर्शयति--तथा हीति - आत्मन इति / जीवात्मन इत्यर्थः / असत्य इतिच्छेदमभिप्रेत्योत्तरपदमवतारयतिकिं तीति / ननु धमिवाचकजीवपदस्य कथं धर्ममात्रपरत्वमित्याशक्य जीवस्वरूपस्यासत्यत्वे सत्य आत्मेत्येतद्विरोधान्मोक्षशास्त्रानर्थक्षप्रसङ्गाच्च जीवत्वस्यैव सत्यत्वनिषेध इत्याह-विशिष्टेति / ननु सत्यो जीव इति पदविभागेन जीवत्वमपि सत्यमित्येवार्थः किन्न स्यादिति तत्राह--द्विविध इति / वर्णितन्यायेनेति / साक्षिविवेकोक्तत्वंपदार्थशोधकन्यायेनेत्यर्थः / सत्यं भिदेत्याद्यवतारयितुं पूर्वभागस्याभिप्रायमाह--अनेनेति / जीवत्वस्यासत्यत्वे जीवस्य ब्रह्मणो भेदकाभावात्तद्भेदाभावसिद्धिरिति भावः / ___ जडप्रपञ्चस्तमिप्रतियोगिकभेदश्चासत्य इति वक्तुमुत्तरसंदर्भ इत्याह-विजातीयेति / . उक्ताभिघाने सामर्थं दर्शयति--पञ्चेति / मूर्तामूर्तब्राह्मणे पृथिव्यादित्रयं सद् वाय्वाकाशौ त्यदिति निर्णीतत्वात्सत्यशब्देन पञ्चभूतात्मकं जगदुच्तत इति भावः / तत्र