________________ द्वितीयः परिच्छेदः ननु प्रत्यक्षविरोधात्सामान्यश्रुतिष्टविशेषविषया नियम्यत इति चेन्न / प्रत्यक्षस्य कल्तिभेदविषयत्वेन वास्तवभेदनिषेधश्रुत्यसमानविषयत्वस्यानुपदमेव वक्ष्यमाणत्वात् / किं चास्य परमात्मभेदनिषेधकत्वे नान्योऽतोऽस्ति द्रष्टेत्येतावदेव स्यात् / नान्योऽतोऽस्ति श्रोता मन्ता विज्ञातेति च निरर्थकमसङ्गतं च / परमात्मनो नित्यसर्वज्ञानाश्रयस्य तद्रूपस्य वाऽशरीरिणः श्रोत्रादिजन्यज्ञानाश्रयत्वलक्षणश्रोतृत्वायोगात्। "तस्मादनवकाशेयं नान्योऽतोऽस्तीत्यभेदधीः। भ्रान्तिप्रतीतजीवेशभेदमेवावबाधते" // ननु भेदोऽपि प्रमाणसिद्धः "सत्य आत्मा, सत्यो जीवः, सत्यं भिदा सत्यं भिदा"इतिश्रुतेरिति चेन्न। प्रसिद्धशाखास्वनवगमात् / अनवकाशभेदापवादश्रुतिविरोधेन तस्याः श्रुतेः स्वार्थपरत्वायोगात् / तच्छेषानुवादत्वात-सत्य इति प्रतीतस्य भेदस्य तथैवानुवादात् / निषिध्यमानभेदप्रतियोग्युपस्थापकेनातःशब्देन प्रकृतान्तर्यामिण एव परामर्शात् नात्र क्षितिकर्तृतद्भेदोपस्थितिः। अनुपस्थितस्य च निषेधो न प्रत्येतुं शक्य इत्यभिप्रेत्याहनान्तर्यामिण इति / किं च आत्मैवेदमग्र आसीदेक एवेत्येकशब्दादेव क्षित्यादिक.क्यसिद्धेः पुनस्तदभिधानमनर्थकमित्याह-क्षित्यादीति / किं च निषिध्यमानभेदधर्म्युपस्थापकद्रष्टपदेन सङ्कोचकाभावेन चेतनमात्रोपस्थितत्वात् तन्मात्रस्यान्तर्यामिणो भेदो नत्रा निषिध्यते, न क्षितिकर्तुरेवेत्याह-द्रष्टुश्रुत्येति / सङ्कोचकाभावोऽसिद्ध इति शङ्कते-नन्विति / द्रष्ट्रविशेषविषयेति / क्षितिकतृ विषयेत्यर्थः / व्यावहारिकभेदविषयप्रत्यक्षस्य वास्तवतदभावश्रुत्या विरोध एव नास्तीत्याह-न प्रत्यक्षस्येति / पराभिमतार्थे वाक्यशेषस्थ वैयर्थ्यमसमवेतार्थत्वं चेत्याह-किं चास्येति / असाङ्गत्यमेवाह-परमात्मन इति / तद्रूपस्य वेति स्वमतेनोक्तम् / सिद्धान्ते तु न वैयर्थ्यम् / जीवर्मिकभेदस्यैव निषेध इति प्रकटनार्थत्वादिति भावः। पराभिमतान्यथासिद्धिनिराकरणफलमाह-श्लोकेन,तस्मादिति / श्रुत्यैव क्रियासमभिहारेण द्वैतसत्यताभिधानात्कथं तन्निषेध इति चोदयति-- नन्विति / अस्य श्रुतित्वमेव विप्रतिपन्नमित्याह-नेति / श्रुतित्वेश्यस्य प्रबलश्रु तिविरोधान्न भेदे प्रामाण्यमित्याह--अनवकाशेति / अस्य भेदपरत्वाभावेऽर्थान्तरस्यानवगमादानर्थक्यापात इत्याशङ्कय भेदानुवादेनाभेदपरत्वमेवैतस्येत्यत आह-तच्छेषेति / निषेधाय भेदानुवादे सत्यपदं किमर्थमित्यत आह-सत्य इतीति / प्रत्यक्षादिना सत्यत्वेन प्रतीत एव भेदः श्रु त्या निषिध्यते / न तु तद्बाधितश्चन्द्रादिभेदोऽपीति द्योतयितुं निषेध्योपस्थापकवाक्ये सत्यपदप्रयोग इति भावः //