________________ 18 सटीकाद्वैतदीपिकायाम् अनुमानादीश्वरभेदप्रसक्तिनिरास. नापि क्षित्यादिकं द्विकर्तृकम कायंत्वात घटवदित्यनुमानात क्षितिकर्तरीश्वरस्य भेदप्रसक्तौ तनिषेधतीति वाच्यम् / ईश्वरप्रसिद्धः पूर्व द्विकर्तृकत्वव्याप्तिग्रहायोगात् / घटमात्रस्य जीवद्वयाजन्यत्वात् / तत्प्रसिद्धौ तु मिग्राहकमानविरोधात् / कर्तृजन्यत्वेनैव कार्यत्वस्य व्याप्त्या तथाव्याप्त्यभावाच्च / .... न च क्षित्यादिकमनेककर्तृकम्। विचित्रकार्यत्वात् प्रासादादिवदितीश्वरभेदप्रसक्तिः / क्षित्यादेरनेककर्तृकत्वे तत्कर्तुः सर्वज्ञत्वाद्ययोगेनानीश्वरत्वात् / अस्तु क्षितिकतुर्भेदनिषेधपरेति चेन्न। अन्तर्यामिण एवातःशब्देन परामर्शात् / क्षित्यादिकत्रैक्यस्य सृष्टिवाक्यगतैकवचनेनैव सिद्धत्वाच्च / द्रष्टश्रुत्याअविशेषणातःशब्दपरामृष्टान्तर्याम्यतिरिक्ते द्रष्टमात्रे बुद्धिस्थे तदुपरक्तनसा तन्मात्राभावप्रमितेश्च / प्रतियोगितावच्छेदकं प्रतीयते / अन्तर्यामिमिकनिषेधे तु नैतदुपपद्यते। भदमिनिष्ठधर्मस्य तत्प्रतियोगितानवच्छेदकत्वात् / अतोऽनन्तर्यामिण एव द्रष्टुरन्तर्यामिप्रतियोगिकभेदोऽत्र निषिध्यत इत्याह- नान्योऽत इति / ननु त्वदुक्तविधथा लाघवाद्यनुगृहीतकवचनान्तशब्दसामर्थ्यसिद्धमन्तर्यामिण्यभेदं नान्योऽतोऽस्तीति श्रुतिरनुवदतीति / तत्राह-- नाप्यन्तर्यामीति / पुनरप्या मानान्तरेणेश्वरभेदप्रसक्तिमाशङ्खयापवदति-नापीति / ईश्वरपक्षकानुमानवन्नात्र धमिग्राहकमानविरोध इति शङ्कितुरभिमानः / अत्रापीश्वरे सिद्धे घटादौ द्विकर्तृकत्वव्याप्तिग्रहः, उतासिद्धे / चरमं दूषयति-ईश्वरेति / कुलालद्वयजन्यस्य कस्य चिद् घटस्य संभवात् तत्र व्याप्तिग्रह इत्याशक्यैककुलालजन्ये व्यभिचारदर्शनान्न व्याप्तिग्रह इत्यभिप्रेत्याह--घटमात्रेति / आये कल्पे एकेश्वरकतृकक्षित्यादिपक्षीकारेण द्विकर्तृकत्वसाधने मिग्राहकमानबाध एवेत्याह-तत्प्रसिद्धाविति / नन्वेककर्तृकघटादेः पक्षतुल्यत्वेन तत्र व्यभिचाराभावाज्जीवद्वयकर्तृकघटादौ व्याप्तिग्रहे सति क्षित्यादावीश्वरप्रसिद्धि विनापि द्विकर्तृकत्वानुमानसिद्धिरिति नेत्याह- कर्तृजन्यत्वेनैवेति / तथेति / गौरवेण द्विकर्तृकत्वस्य कार्यत्वाव्यापकत्वादित्यर्थः / ननु धूममात्रस्य वह्निमात्रेण व्याप्तावपि सुरभिधूमस्य चन्दनादिवह्निना व्याप्तिवत् कार्यत्वमात्रस्य कर्तृजन्यत्वमात्रेण व्याप्तावपि विचित्रकार्यत्वस्यानेककर्तृकेनैव व्याप्तिरिति तत्राह-न च क्षित्यादिकमिति / तत्र हेतुमाह--क्षित्यादेरिति / प्रासादादावेकैकांशमेव ह्मेकैको जानाति / अतस्तमेव करोति / न तु सर्वस्यैकः परिज्ञाता, कर्ता वा। एवं क्षित्यादावपि तत्तत्कर्तृणामेककांशे एव ज्ञानक्रियासामर्थ्य मिति नैकैकस्य सर्वज्ञत्वादि. सिद्धिः। तथा चानीश्वरत्वात्तेषां न तद्भेदानुमानेनेश्वरभेदसिद्धिरिति भावः / नन्वत्रेश्वरभेदो न निषिध्यते। किन्तुक्तानुमानप्राप्तक्षितिकतृ भेद एवेति शङ्कते-अस्त्विति /